________________
द्वितीयो भागः [ परि०५-का० ७३]
५५९ 'नीलवेदनस्य स्वतः प्रकाशनान्नायं दोष इति तदसत्, परस्परापेक्षैकान्तविरोधात्, दण्डादेविशेषणस्य स्वबुद्धौ स्वतः सिद्धेः सामान्यादेरपि स्वग्राहिणि ज्ञानेऽन्यानपेक्षस्य प्रतिभासनाद्विशेष्यविशेषणादेरपि तथा प्रसिद्धेर्द्वयाभावानवकाशात् । तत एव दूरेतरादिदृष्टान्तोऽपि साध्यसाधनधर्मविकलः स्यात् ।
__(भा०) दूरासन्नभावयोरपि स्वभावविवर्तविशेषाभावे समानदेशादेरपि प्रसङ्गात् ।
न च समानदेशकालस्वभावयोरन्योन्यापेक्षयापि दूरासन्नभावव्यवहारः, खरविषाणयोरिव तत्स्वभावशून्ययोस्तदयोगात् ।
(भा०) तदिमौ स्वभावतः स्तामन्यथेतरेतराश्रयदोषानुषङ्गात् ।
एतेन स्वाश्रयशब्दाद्यपेक्षया सत्त्वादेर्धर्मत्वेन स्वधर्मापेक्षायां धर्मित्वं नाव्यवस्थाकारित्वेनायुक्तमिति प्रकाशितं, तथाविधस्वभावविशेषाभावे परापेक्षयापि धर्मधर्मिभावानुपपत्तेः, अनन्तत्वाच्च धर्माणां तदपेक्षिणामप्यपर्यन्तत्वात्, अन्यथाभिप्रेतधर्मधर्मिणोरप्यव्यवस्थापत्तेः, इति नापेक्षकान्तः श्रेयान् । [यौगो धर्मधर्मिणौ सर्वथानापेक्षिकौ एव मन्यते, किन्तु जैनाचार्याः तस्य निराकरणं कुर्वन्ति ।]
योऽप्याह-'धर्मधर्मिणोः सर्वथा नापेक्षिकी सिद्धिः, प्रतिनियतबुद्धिविषयत्वान्नीलादिस्वरूपवत्, सर्वथानापेक्षिकत्वाभावे प्रतिनियतबुद्धिविषयत्वानुपपत्तेः खपुष्पवत्' इति ।
अष्टसहस्रीतात्पर्यविवरणम् ।
तथात्वं भावनीयं, प्रसङ्गस्य वस्तुस्थित्यनपेक्षत्वात् । परस्परापेक्षैकान्तविरोधादिति यद्यपि एतद् दूषणं न सौगतं प्रति सङ्गच्छते, सर्वत्र तेन परस्परापेकान्तानभ्युपगमात्, सङ्कलनात्मकविकल्पज्ञान एव तेन तत्स्वीकारात्, तथापि धर्मधर्मभावादेः स्वरूपद्वयानतिरिक्तत्वात्तदुभयग्राहिदर्शनेऽपि परस्परापेक्षत्वमापाद्य तं प्रत्येवेदमिति बहवः । सविकल्पग्राह्यमेव सर्वमिति शब्दनयविदं प्रतीति तु सम्मत्यनुसारिणः । भाष्ये तदिमौ इति इमौ= दूरासन्नभावौ । इतरेतराश्रयदोषानुषङ्गादिति दूरप्रतिपत्तावासन्नस्य प्रतिपत्तिस्तत्प्रतिपत्तौ च तस्येत्येवमित्यर्थः । उत्पत्तिपक्षेऽपि दूरापेक्षबुद्ध्यासन्नत्वस्यासन्नापेक्षाबुद्ध्या च दूरत्वस्योत्पत्तेरन्योन्याश्रयो भावनीयः । अन्यथा सर्वेषां धर्मधर्मिणां स्वतः सिद्ध्यभावे, अपेक्ष