________________
॥ नवमः परिच्छेदः ॥
पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥९२॥
सम्यगवबोधपूर्वं पौरुषमपसारिताखिलानर्थम् । दैवोपेतमभीष्टं सर्वं संपादयत्याशु ॥१॥
[यदि एकान्तेन परस्मिन् दुःखोत्पादने पापं सुखोत्पादने पुण्यं भवेत्तर्हि के के दोषा भविष्यन्तीति दर्शयन्ति आचार्याः ।]
द्विविधं हि दैवं पुण्यं पापं च प्राणिनामिष्टानिष्टसाधनमुक्तं, सद्वेद्यशुभा - युर्नामगोत्राणि पुण्यम्, इतरत् पापम् इति वचनात् [ तत्त्वा० ८.२५-२६] तदास्रवनिमित्तविप्रतिपत्तिविपत्त्यर्थमिदमुक्तम् । तत्र परसन्ताने दुःखहेतुः पुरुषः पापमात्मन्यास्रवयति सुखहेतुः पुण्यमिति ।
( भा० ) परत्र सुखदुःखोत्पादनात् पुण्यपापबन्धैकान्ते कथमचेतनाः क्षीरादयः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मत्तव्यालकरालकालफणिराडुत्फालसिंहार्णवज्वालाजालजटालपावकरणप्रौढव्यथाबन्धजाः ।
यान्त्यष्टापि भियः क्षयं भवभृतां यन्नाममन्त्रस्मृते
स्तं श्रीमत्फलवद्धिमण्डनमहं ध्यायामि पार्श्वप्रभुम् ॥१॥ [ शार्दूल० ]
नवमे दैवभेदपुण्यपापाश्रवविचारः । पापं ध्रुवमिति,
निमित्तत इति परगतसुखदुःखनिमित्तभावादित्यर्थः ॥९२॥
परे = स्वभिन्नात्मनि,