________________
६१८
अष्टसहस्त्रीतात्पर्यविवरणम्
कण्टकादयो वा (भा०) न बध्येरन् ?, परस्मिन् सुखदुःखयोरुत्पादनात् । चेतना एव बन्धार्हा इति चेत्, तर्हि (भा०) वीतरागाः कथं न बध्येरन् ? (भा०) तन्निमित्तत्वाद्
बन्धस्य । तेषामभिसन्धेरभावान्न बन्ध इति चेत्, तहि न परत्र सुखदुःखोत्पादनं पुण्यपापबन्धहेतुरित्येकान्तः सम्भवति ॥९२।।
पुण्यं ध्रुवं स्वतो दुःखात्यापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युज्यान्निमित्ततः ॥१३॥ [यदि एकान्तेन स्वस्मिन् दुःखोत्पादने पुण्यं सुखोत्पादने पापं भवेत्तर्हि
के के दोषाः सन्तीति कथयन्ति आचार्याः ।] स्वस्मिन् दुःखोत्पादनात् पुण्यं सुखोत्पादनात् पापमिति यदीष्यते तदा वीतरागो विद्वांश्च मुनिस्ताभ्यां पुण्यपापाभ्यामात्मानं युज्यान्निमित्तसद्भावात्, वीतरागस्य कायक्लेशादिरूपदुःखोत्पत्तेविदुषस्तत्त्वज्ञानसन्तोषलक्षणसुखोत्पत्तेस्तन्निमित्तत्वात् ।
स्यान्मतं- 'स्वस्मिन् दुःखस्य सुखस्य चोत्पत्तावपि वीतरागस्य तत्त्वज्ञानवतस्तदभिसन्धेरभावान्न पुण्यपापाभ्यां योगस्तस्य तदभिसन्धिनिबन्धनत्वात्' इति तर्हानेकान्तसिद्धिरेवायाता ।
अष्टसहस्रीतात्पर्यविवरणम् -
तदभिसन्धिनिबन्धनत्वादिति वक्ष्यमाणाविशुद्धिसङ्क्लेशरूपपुण्यपापाशयकारणकत्वादित्यर्थः । तेन तत्त्वज्ञानिनो जीवन्मुक्तस्य विहितनिषिद्धाचरणेऽपि मिथ्याज्ञानवासनाभावान्नादृष्टमिति नैयायिकादिमतं अपास्तम् रागद्वेषाभावादेव तस्य बन्धासिद्धेः, अन्यथा तत्त्वज्ञानस्यापि विहितत्वेन विनश्यदवस्थमिथ्याज्ञानवासनासहकृततज्जन्यशुभादृष्टस्यान