________________
द्वितीयो भागः [परि. ९-का. ९४-९५]
६१९ __ (भा०) आत्मसुखदुःखाभ्यां पापेतरैकान्तकृतान्ते पुनरकषायस्यापि ध्रुवमेव बन्धः स्यात् । ततो न कश्चिन्मोक्तुमर्हति, तदुभयाभावासम्भवात् ।
न हि पुण्यपापोभयबन्धाभावासम्भवे मुक्तिर्नाम, संसृतेरभावप्रसङ्गात् । ततो नैतावेकान्तौ सम्भाव्येते दृष्टेष्टविरुद्धत्वात् सदायेकान्तवत् ॥९३।।
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥१४॥
(भा०) प्रस्तुतैकान्तद्वयसिद्धान्ते व्याहतेरनभिधेयतायामनभिधेयाभिधानविरोधात् कथञ्चिदेवेति युक्तम् ।
न हि स्वस्मिन्नन्यस्मिन्वा सुखात् दुःखाच्च पुण्यमेव पापमेव वा तदुभयमेव चेति वदतामव्याहतिः सम्भवति, नापि तथाऽवाच्यतैकान्तेऽवाच्यमित्यभिधानमविरुद्धं, यतः स्याद्वादो न युक्तः स्यात् ॥९४॥
कथं स्याद्वादे पुण्यपापास्रवः स्यादित्याहुःविशुद्धिसङ्क्लेशाङ्गं चेत् स्वपरस्थं सुखासुखम् । पुण्यपापास्त्रवो युक्तो न चेद् व्यर्थस्तवार्हतः ॥१५॥
[विशुद्धिसङ्क्लेशपरिणामौ एव पुण्यपापबन्धयोर्हेतू भवतः ।] (भा०) आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसङ्क्लेशाङ्गयोरेव पुण्यपापास्रवहेतुत्वं, न चान्यथातिप्रसङ्गात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् न्तत्वादनिर्मोक्षापत्तेः, निषिद्धाचरणस्य च तस्यानुचितप्रवृत्तिजनकमोहाभावेनैव दूरापास्तत्वात् । एतेन ईश्वरार्पणबुद्ध्या फलानुद्देशेन प्रतिपदोक्तफलत्यागेन विविदिषार्थतया वा कृतात्कर्मणोऽदृष्टानुत्पत्तिरिति वेदान्तिमतमपि अपास्तम्, ईदृशब्रह्महत्यादेरपि पापानुत्पत्त्यापत्तेः, श्येनादिनाऽतिप्रसङ्गेन वेदोक्तत्वस्याप्यविनिगम्यत्वादिति दिग् ॥९३।।
विशुद्धिसङ्क्लेशाङ्गं चेदिति अत्राङ्गशब्दार्थं त्रिधा व्याचष्टे-विशुद्धिकारण