________________
६२०
अष्टसहस्त्रीतात्पर्यविवरणम् विशुद्धिकारणस्य विशुद्धिकार्यस्य विशुद्धिस्वभावस्य वा विशुद्ध्यङ्गस्य सङ्क्लेशकारणस्य सङ्क्लेशकार्यस्य सङ्क्लेशस्वभावस्य वा सङ्क्लेशाङ्गस्य च, सुखस्य दुःखस्य वा तदुभयस्य वा स्वपरोभयस्थस्य पुण्यात्रवहेतुत्वं पापास्रवहेतुत्वं च यथाक्रमं प्रतिपत्तव्यम् । न चान्यथा, यथोदितप्रकारेणातिप्रसङ्गस्येष्टविपरीतेऽपि पुण्यपापबन्धप्रसङ्गस्य दुर्निवारत्वात् ।
[विशुद्धिसङ्क्लेशयोः किं लक्षणं ? इति प्रश्ने स्पष्टीकुर्वन्ति जैनाचार्याः ।] कः पुनः सङ्क्लेशः ? का वा विशुद्धिः इति चेत् उच्यते
(भा०) आर्तरौद्रध्यानपरिणामः सङ्क्लेशसतदभावो विशुद्धिरात्मनः स्वात्मन्यवस्थानम् ।
तत्रार्तध्यानं चतुर्विधं, आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । विपरीतं मनोज्ञस्य । वेदनायाश्च । निदानं च इति सूत्रचतुष्टयेन तथा प्रतिपादनात् [तत्त्वा० ९.३०-३३] । रौद्रध्यानं चतुर्विधं, हिंसादिनिमित्तभेदात् हिंसानृतास्तेयविषयसंरक्षणेभ्यो रौद्रम्' इत्यत्र सूत्रे प्रकाशनात् [तत्त्वा० ९.३५] । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः [तत्त्वा० ८.१] त एव सङ्क्लेशपरिणामा इति न विरुद्धयेते
- अष्टसहस्रीतात्पर्यविवरणम् स्येत्यादिना विशुद्धिस्वभावत्वमकारणाकार्यत्वे सति तन्नियतत्वम्, एवं सङ्क्लेशस्वभावत्वमपि व्याख्येयम् । अत्र निश्चयतो विशुद्धिसंक्लेशयोरेव पुण्यपापहेतुत्वं, व्यवहारतस्तु तदुत्कर्षकत्वेन तद्द्वारा तदङ्गनानाविधबाह्यहेतूनामिति नयविभागो द्रष्टव्यः, तथा च पारमर्षम्
अणुमित्तो वि ण कस्सइ, बंधो परवत्थुपच्चया भणिओ । तह वि खलु जयंति जई, परिणामविसोहिमिच्छंता ॥ इत्यादि । [ओघनियुक्तिः ८५७]
ननु आगमे मिथ्यादर्शनादीनां बन्धहेतुत्वमुक्तम्, अत्र तु सङ्क्लेशाङ्गस्येति कथं न विरोध इति चेत्, न, आगमे उपादानहेतूनामेव परिसङ्ख्यानादत्र च तेषामन्येषां च सङ्क्लेशाङ्गपदोपादानेनैव सङ्ग्रहादविरोधादित्याशयवानाह-मिथ्यादर्शनाविरतीत्यादि ।
१. छाया - अणुमात्रोऽपि न कस्यचिद् बन्धः परवस्तुप्रत्ययाद् भणितः ।
तथापि खलु यतन्ते यतयः, परिणामविशोधिमिच्छन्तः ।