________________
द्वितीयो भागः [ परि. ९-का० ९५]
६२१ तेषामार्तरौद्रध्यानपरिणामकारणत्वेन सङ्क्लेशाङ्गत्ववचनात्, तत्कार्यहिंसादिक्रियावत् । कायवाङ्मनःकर्म योगः । स आस्रवः । शुभः पुण्यस्य अशुभः पापस्य इत्यपि [तत्त्वा० ६.१-३] न विरुद्धं, कायादियोगस्यापि तत्कारणकार्यत्वेन सङ्क्लेशत्वव्यवस्थितेः । एतेन तदभावे विशुद्धिः सम्यग्दर्शनादिहेतुः धर्म्यशुक्लध्यानस्वभावा तत्कार्यविशुद्धिपरिणामात्मिका च व्याख्याता, तस्यामेवात्मन्यवस्थानसम्भवात् । तदेवं विवादाध्यासिताः कायादिक्रियाः स्वपरसुखदुःखहेतवः सङ्क्लेशकारणकार्यस्वभावाः प्राणिनामशुभफलपुद्गलसम्बन्धहेतवः सङ्क्लेशाङ्गत्वाद्विषभक्षणादिकायादिक्रियावत् । तथा विवादापन्नाः कायादिक्रियाः स्वपरसुखदुःखहेतवो विशुद्धिकारणक्रियास्वरूपाः प्राणिनां शुभफलपुद्गलसम्बन्धहेतवो, विशुद्ध्यङ्गत्वात् पथ्याहारादिकायादिक्रियावत् । ये शुभाशुभफलपुद्गलास्ते पुण्यं पापं च कर्मानेकविधम् । इति सक्षेपात्सकलशुभाशुभकर्मास्रवबन्धकारणं सूचितं भवति, विस्तरतस्तस्यास्रवबन्धाध्याये सुनिरूपितत्वात् । ततः स्यात् स्वपरस्थं सुखदुःखं पुण्यास्रवहेतुविशुद्ध्यङ्गत्वात् । स्यात् पापास्रवहेतुः, सङ्क्लेशाङ्गत्वात् । स्यादुभयं, क्रमापिततद्वयात् । स्यादवक्तव्यं, सहापिततद्वयात् । स्यात् पुण्यहेतुरवक्तव्यं च, स्यात्पापहेतुरवक्तव्यं च, स्यादुभयं चावक्तव्यं च, स्वहेतुविषयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववद्योजनीया ॥९५।।
अष्टसहस्रीतात्पर्यविवरणम् कायेत्यादि । सङ्क्लेशाङ्गव्याख्यानस्य या दिक् सैव विशुद्ध्यङ्गव्याख्यानस्येत्यतिदिशतिएतेनेत्यादि । एवं व्यवस्थिते बाह्यक्रियाणां कर्मपुद्गलसम्बन्धहेतुत्वं साधयितुमनुमानप्रयोगमाह-तदेवं विवादाध्यासिता इत्यादिना । स्यादवक्तव्यं सहार्पितद्वयादिति प्रशस्ताप्रशस्तभेदेनाध्यवसायस्थानानां द्विविधानामेव व्यवस्थितत्वात्तत्तृतीयराश्यभावेनैकदाविशुद्धिसङ्क्लेशाङ्गोभयरूपस्य कस्यापि व्यापारस्य वक्तु मशक्यत्वादित्यर्थः । यत्तु अविधिना दानादिव्यापारस्य शुभाशुभयोगत्वमुच्यते, तद् व्यवहारत एव, न तु निश्चयतः, तत्राविधिदानपरिणामयोर्यदंशे उत्कटत्वं तदंशस्यैव फलवत्त्वं, नान्यस्य, अन्यथा ततो मिश्रकर्मबन्धप्रसङ्गात्, न च मिश्रं कर्म किञ्चिदस्ति बन्धतः, केवलं सङ्क्रमत एव मिश्रमोहनीयमेकमस्तीत्याद्यर्थस्य महाभाष्ये व्यवस्थितत्वात् । यदपि कुशलाकुशलं कर्म तत्त्वार्थभाष्ये परिगणितं तदपि न बन्धतः, किन्त्वनुबन्धत इति विस्तरेण व्यवस्थापितं तर्कभाष्यानुसारिण्यां तत्त्वार्थटीकायामस्माभिरिति तत एव तदवधार्यं सुधीभिः ॥९५।।
१. तृतीयचतुर्थादिश्लोकानां टीका नोपलभ्यतेऽधुना ।