________________
६२२
अष्टसहस्त्रीतात्पर्यविवरणम्
न किञ्चित्पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शुद्धि समधिवसतो ध्वंसविधुराम् ।
- अष्टसहस्रीतात्पर्यविवरणम् न किञ्चित्पापायेत्यादि नवमसमाप्तिपद्यं विद्यानन्दस्य । अत्रेदं मनाग् मीमांसामहे । (शङ्का) यद्येवं शुद्धोपयोगभूमिकामारूढस्य मुनेश्चिच्चमत्कारमात्रविश्रान्तसतत्त्वस्य बाह्यहेतोरकिञ्चित्करत्वं, तदा प्रतिक्रमणक्रियाऽपि तं व्यभिचरेत्, (समा०) व्यभिचरेदेव । (शङ्का) प्रतिक्रमणप्रतिचरणाविज्ञानधारणाबुद्धीहामतिविकल्पाष्टकस्य प्राग्दशायाममृतकुम्भत्वस्योत्तरदशायां च विषकुम्भत्वस्य समयप्राभृतेऽभिधानादिति चेत्, इदमेव तहि विचारणीयं प्राग्दशायाममतकम्भत्वं किं तस्य (१) शभोपयोगहेतत्वादत (२) आरूढपातित्यपरिहारार्थत्वात किं वा (३) स्वातन्त्र्येण निर्जरार्थत्वादताहो (४) स्वभावसमवस्थानालम्बनत्वात् अथवा (५) विहितक्रियोपदेशप्रणेतृस्मरणद्वाराभगवत्समापत्तिहेतुत्वात् किं वा (६) स्वगुणस्थानोचितत्वादथवा (७) नानाक्रियासमूहालम्बनसामायिकपरिणामान्तःपातित्वादुत (८) योगसाधनत्वादित्यष्टौ विकल्पा उपतिष्ठन्ते । नाद्यः पक्षः क्षेमङ्करः, शुभोपयोगहेतुमुनेः (तुर्मु) प्राक्क्रियाया आश्रयणीयत्वेऽनुकम्पादानादेरपि तथात्वापत्तेः । न द्वितीयः, प्राग्दशायामारुरुक्षुतयारूढत्वस्याप्रसङ्गेन तत्पातित्यपरिहारार्थताया दुरापास्तत्वात् । न तृतीयः, स्वातन्त्र्येण निर्जरार्थताया उत्तरदशायामप्यव्याहतत्वेन तदा विषकुम्भत्ववचनस्यैव विषकुम्भत्वापत्तेः । अत एव न चतुर्थादयः, सिद्धयोगस्य योगसाधनानपेक्षणात्, पूर्वं तु तदपेक्षावश्यकत्वात् अष्टमोऽवशिष्यते, सोऽपि
यान्येव साधनान्यादौ, गृह्णीयाद् योगसा(ध)कः ।
सिद्धयोगस्य तान्येव, लक्षणानि विदुर्बुधाः ॥१॥ [ ]
इत्युक्तरीत्या निर्लोठनीयः । शमदमादीनामिव प्रतिक्रमणादिक्रियाया उत्तरदशायां योगिनो लक्षणत्वेन विषकुम्भत्वायोगात्, प्रत्युत स्थिरामृतकुम्भत्वस्यैव सिद्धेः (शङ्का) न चाव्यभिचारिलक्षणत्वाभावान्नैवं (समा०) स्वकालेऽव्यभिचारित्वात्, पर्यन्ते तु शुद्धधर्मसंन्यासोत्पत्तौ क्षायोपशमिकानां शमदमादीनामपि नाशोपगमात् ।
___ तस्मात् पूर्वोत्तरभूमिकयोर्वचनासङ्गानुष्ठानतयैव क्रियाभेदो यथाऽस्मत्साम्प्रदायिकैर्लक्षितस्तथा श्रेयान्, न तु परोक्तामृतविषकुम्भदृष्टान्तेन, उपरायां दृष्टौ समाधिकाले आरूढारोहणाभावन्यायेन क्रियाया अनुपयोगाभिधानं तु शमादेरिवाभिनवग्रहणापेक्षया, न तु विषकुम्भत्वदृष्ट्या, प्रतिपन्ननिर्वाहस्यान्ततो लोकशिक्षार्थं परमयोगिनोऽप्यभिधानात्, शुभोपयोगकालेऽपि साधोः क्रियातो धर्मप्राप्तिश्च पुष्टिशुद्धिमच्चित्तान्वयेन लक्षणीया,