________________
द्वितीयो भागः [परि०९-का. ९४-९५]
६२३ भवेत् पुण्यायैवाखिलमपि विशुद्धयङ्गमपरं मतं पापायैवेत्युदितमवताद्वो मुनिपतेः ॥१॥ [शिखरिणी] । इत्याप्तमीमांसालङ्कृतौ नवमः परिच्छेदः ।
अष्टसहस्रीतात्पर्यविवरणम् तस्यैवोभयोपयोगसाधारणत्वेन धर्मलक्षणत्वात्, उभयसंवलनेऽपि शुद्ध्याधिक्येन साधोधर्माधिकारित्वाव्याहतेः, अधिकारद्वयफलद्वयकल्पनायां गौरवाच्चारित्रधर्मप्रवृत्तावशुभोपयोगराहित्यस्यैकाधिकारस्यैव कल्पने लाघवात्, गुप्तिमत एवाधिकारित्वे तु गुप्तित्वमेकं प्रवीचाराप्रवीचारसाधारणमधिकारतावच्छेदमेकं कल्पनीयम् । किं बहुना ? धर्माथिक्रियायामनुषङ्गतः पुष्टेः प्राधान्यतश्च शुद्धेराप्तिरिति न काचन क्षतिः । एवं च स्थिरादिदृष्टिमतां सूत्रोक्ता प्रतिक्रमणादिक्रिया रत्नशिक्षानियोजनदृष्टिवद्भिन्नभिन्नैव शुद्धिनिबन्धनं, न तूत्तरोत्तरं तद्विलोप एवेति प्रतिपत्तव्यम् । यथा च 'युक्ताहारविहारक्रिया प्रवचनसाराद्युक्तक्रमेण चारित्रोपयोगिनी तथा युक्तोपकरणधारणादिक्रियापि किं न स्यात् 'जं पि वत्थं व पायं वा [दशवैकालिक ६-२०] इत्यादिविधिशतानां तत्रोपलम्भात् । बाह्यपुद्गलप्रवृत्तेर्मूर्छानिमित्तत्वे आहारादावप्यप्रवृत्त्यापत्तेः, आहारादिक्रिया ध्यानदीपे तैलप्रचारतुल्यत्वेनाश्रयणीत्वे युक्तोपकरणधारणस्यापि निर्वातदेशस्थापनतुल्यत्वेनाश्रयणीयत्वाविशेषात् । नाग्न्यस्य चारित्रासाधारणकारणत्वेन मूलगुणत्वे वस्त्रस्य च तत्प्रतिबन्धकत्वेऽभ्युपगम्यमाने न किञ्चित्पापायेत्यादिस्वप्रतिज्ञाया एव दुरुत्प्रेक्षितत्वापत्तेः, तस्मात्
मूर्छाच्छन्नधियां हन्त, जगदेव परिग्रहः ।
मूर्च्छया रहितानां तु, जगदेवापरिग्रहः ॥ [ज्ञानसार-परिग्रहाष्टक-८] इत्याद्यस्मदुक्तं विमृश्य धर्मलक्षणं च पुष्टिशुद्धिमच्चित्तरूपमेवादृत्य यथासूत्रं प्रवृत्त्यैव शुद्धाध्यवसायनिर्वाह: कार्य इत्यस्माकं हितोपदेशः ॥९५॥
वक्तव्यमेव किल यत्तदशेषमुक्तमेतावतैव यदि चेतयते न कोऽपि । व्यामोहजालमतिदुस्तरमेव नूनं, निश्चेतनस्य वचसामतिविस्तरेऽपि ॥१॥ (वसंततिलका)
१. जं पि वत्थं व पायं वा कंबलं पाय पुंछणं ।
तं पि संजमरक्खट्ठा धारंति परिहरंति य । (छाया -यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोञ्छनम् ।
तदपि संयमरक्षार्थं धारयन्ति परिहरन्ति च ।) २. विद्यानन्देः श्लोक: नवमपरिच्छेदपर्यन्तस्य ।