________________
द्वितीयो भाग: [ परि० ३ - का० ५६ ]
५०९
प्रमाणं स्यान्नित्यत्वस्य साधकम् अतः स्वरूपासिद्धो हेतुरिति कश्चित् सोऽपि प्रतीत्यपलापी, पूर्वोत्तरविवर्तस्मरणदर्शनाभ्यामुपजनितस्य तदेकत्वसङ्कलनज्ञानस्य प्रत्यभिज्ञानत्वेन संवेद्यमानस्य सुप्रतीतत्वात् । न हि स्मरणमेव पूर्वोत्तरविवर्तयोरेकत्वं सङ्कलयितुमलम् । नापि दर्शनमेव । तदुभयसंस्कारजनितं विकल्पज्ञानं तत् सङ्कलयतीति चेत्, तदेव प्रत्यभिज्ञानं सिद्धम् । न च तदकस्मादेव भवतीति निर्विषयं, बुद्ध्यसञ्चरदोषात् । न हि प्रत्यभिज्ञानविषयस्याविच्छिन्नस्य नित्यत्वस्याभावो बुद्धेः सञ्चरणं नाम, निरन्वयविनाशाद् बुद्ध्यन्तरजननानुपपत्तेः, यदेवाहमद्राक्षं तदेव स्पृशामीति पूर्वोत्तरपरिणामयोरेकद्रव्यात्मकत्वेन गमनासम्भवात्, ततोऽन्यस्य बुद्धिसञ्चरणस्येहाप्रस्तुतत्वात् । तथाविधैकत्ववासनावशाद् बुद्धिसञ्चरणं न पुनः कथञ्चिन्नित्यत्वादिति चेत्, न कथञ्चिन्नित्यत्वाभावे संवेदनयोर्वास्यवासकभावायोगात्कार्यकारणभावविरोधात् । ततो बुद्धिसञ्चरणान्यथानुपपत्तेर्नाकस्मिकं प्रत्यभिज्ञानं विच्छेदाभावाच्च ।
इति कथञ्चिन्नित्यं वस्तु प्रसाधयति । तथा सर्वं जीवादि वस्तु कथञ्चिद् क्षणिकं, प्रत्यभिज्ञानात् । न चैतत् क्षणिकत्वमन्तरेण भवतीत्यकस्मादुपजायते, तद्विषयस्य कथञ्चित्क्षणिकस्य विच्छिदभावात् । न च तदविच्छिदसिद्धा, कालभेदात्, कालभेदस्य च पूर्वोत्तरपर्यायप्रवृत्तिहेतोरसिद्धौ बुद्ध्यसञ्चरणदोषात् । न च तदिदमिति स्मरणदर्शनबुद्ध्योः सञ्चरणापाये प्रत्यभिज्ञानमुदियात्, तस्य पूर्वापरपर्यायबुद्धिसञ्चरणनिबन्धनत्वात् ।
[ साङ्ख्यः सर्वथा नित्यपक्षे एव प्रत्यभिज्ञानं मन्यते किन्तु जैनाचार्याः कथञ्चित्क्षणिके मन्यते ।]
ननु च सर्वं नित्यं सत्त्वात् क्षणिके स्वसदसत्समयेऽर्थक्रियानुपपत्तेः सत्त्वविरोधाद्, इत्यनुमानात् क्षणिकत्वस्य निराकृतेर्न प्रत्यभिज्ञानं तत्साधकं,
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावव्यापित्वाविरोधवत् क्रमेणापि तस्य तत्प्राप्तौ कौटस्थ्यं विरुध्यत एवेति द्रष्टव्यम् । इयमेव दिग् निरन्वयक्षणिकत्वव्याघातेऽपि । तदुभयसंस्कारजनितमिति न च संस्कारजन्यत्वे प्रत्यभिज्ञानस्य ततस्तत्तोल्लेख एव स्यान्नेदन्तोल्लेख इति शङ्कनीयम्, उल्लेखविशेषे विषयताविशेषस्यैव प्रयोजकत्वाद् वह्निपर्वतयोरनुमिनोमि नानुमिनोमीतिवदिति द्रष्टव्यम् ।