________________
५१०
अष्टसहस्त्रीतात्पर्यविवरणम् प्रधानलक्षणविषयाविच्छेदसद्भावात् कालभेदासिद्धेर्बुद्ध्यसञ्चरणदोषानवकाशाद् बुद्धेरेकत्वगमनस्य सञ्चरणस्य सिद्धेरिति चेत्, न, सर्वथा क्षणिकत्वस्यैव बाधनात. कथञ्चित्क्षणिकस्य स्वसत्समये स्वासत्समये चार्थक्रियोपलब्धेः । सुवर्णस्य हि प्रतिविशिष्टस्य सुवर्णद्रव्यतया सत एव, कार्याकारतया चासत एव पूर्वपर्यायाविशिष्टस्योत्तरपरिणामविशेषात्मनोत्पद्यमानस्य प्रतीतिः परीक्षकेतरजनसाक्षिका, स्वसत्समये कार्यकारणं सव्यगोविषाणस्येतरविषाणकरणवन्निरस्यमानं, स्वासत्समये च मृतस्य शिखिनः केकायितकरणवदपाक्रियमाणं स्वयमेव व्यवस्थापयति, इति किं नश्चिन्तया ? विरोधादिदूषणस्यापि तयैवापसारितत्वात् । सोऽयमात्मादीनां स्वसत्समये एव कर्मादीनां च स्वासत्समये एव ज्ञानसंयोगादिकारणत्वमनुमन्यमानस्तथा सम्प्रत्ययादेकस्य स्वसदसत्समये एवैककार्यकरणं विरोधादिभिरभिद्रवतीति कथं सम्प्रत्ययोपाध्यायः ? सम्यक्प्रतीयमानेऽपि विरोधमनुरुध्यमानः क्व पुनरविरोधं बुध्येत ? द्रव्यपर्याययोरभेदैकान्तप्रतीतिं स्वसमयानुरागमात्रेणाननुभूयमानामप्यविरुद्धविषयां परिभाषते इति किमन्यत्कारणं महतोऽभिनिवेशात् ? तदेवं कथञ्चित् क्षणिकत्वसाधने प्रत्यभिज्ञानं नानुमानविरुद्धम् । नापि प्रत्यक्षविरुद्धं सर्वस्येदानीन्ततया प्रत्यक्षेणानुभवात्, तेन तस्यातीतानागततयानुभवनेऽनाद्यनन्तपरिणामात्मकस्यानुभवप्रसङ्गाद्योगित्वापत्तेः, साम्प्रतिकतयानुभवस्यैव क्षणिकत्वानुभवरूपत्वात्, क्षणमात्रस्यैव साम्प्रतिकत्वोपपत्तेः, पूर्वोत्तरक्षणयोः साम्प्रतिकत्वेऽनाद्यनन्तक्षणसन्ततेरपि साम्प्रतिकत्वानुषङ्गादतीतानागतव्यवहारविलोपात् । न चैवं क्षणिकैकान्तस्य प्रत्यक्षतः प्रसिद्धः कथञ्चिदक्षणिकत्वविरोधः, पर्यायाकारतयार्थस्येदानीन्तनतयानुभवविच्छेदेऽपि द्रव्यतया तदविच्छेदात्, तद्विच्छेदे द्रव्यत्वविरोधात् । शश्वदविच्छिन्नेदानीन्तनत्वस्य द्रव्यत्वादनित्यत्वैकान्तस्याव्यवस्थितेनित्यत्वैकान्तवत् । (भा०) तदेकान्तद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकान्तः ।
– अष्टसहस्त्रीतात्पर्यविवरणम् कथं सम्प्रत्ययोपाध्यायः कथं विश्वासगुरुः ? न कथञ्चित्, प्रत्येकाविरोधवत् समुदायाविरोधस्यानुभवसाक्षित्वादिति भावः । इदानीन्तनतयेति, न च क्षणस्यायोग्यतया प्रत्यक्षे भानायोगः, सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना (मीमांसाश्लोकवार्तिक-८४) इति वचनादिति वाच्यम्, योग्योपसर्जनतयाऽयोग्यस्यापि वर्तमानक्षणस्य क्षयोपशमोपनीतस्य प्रत्यक्षे भानाविरोधात्, संसर्गतया वाऽस्तु तद्भानाविरोध इति दिग् । योगित्वापत्तिः तत्प्रत्यक्षस्य