________________
५११
द्वितीयो भागः [परि०३-का० ५६]
स्यान्नित्यमेव सर्वं स्यादनित्यमेवेति सिद्धः ।
[स्थित्यभावे प्रत्यभिज्ञानं न सम्भवति ।] (भा०) स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । पूर्वोत्तरप्रमातृक्षणयोः कार्यकारणभावलक्षणे (भा०) सम्बन्धविशेषेऽपि पित्रेव दृष्टं पुत्रो न प्रत्यभिज्ञातुमर्हति । तयोरुपादानोपादेयलक्षणः (भा०) सन्नप्यतिशयः पृथक्त्वं न निराकरोति पृथक्त्वे च पूर्वापरक्षणयोः प्रत्यवमर्शो न स्यात् । यदेव हि पृथक्त्वं (भा०) तदेवान्यत्रापि प्रत्यवमर्शाभावनिबन्धनं,
सर्वत्र तदविशेषात् । यदि पुनरेकसन्ततिपतितेषु प्रत्यवमर्शो न पुनर्नानासन्ततिपतितेषु पृथक्त्वाविशेषेऽपि वासनाविशेषसद्भावादिति मतं तदा सैवैकसन्ततिः क्वचिदेव कुतः सिद्धा ? प्रत्यभिज्ञानादिति चेत्, तहि ।
(भा० ) एकसन्तत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानबलाच्चैकसन्ततिरिति व्यक्तमितरेतराश्रयणमेतत् । न च पक्षान्तरे समानं, स्थितेरनुभवनात् ।
न ह्येकद्रव्यसिद्धेः प्रत्यभिज्ञानं प्रत्यभिज्ञानाच्चैकद्रव्यसिद्धिः स्याद्वादिभिरिष्यते, येन तत्पक्षेऽपि परस्पराश्रयणं, भेदज्ञानाद् भेदसिद्धिवदभेदज्ञानात् स्थितेरनुभवाभ्युपगमात् ।।
(भा०) तद्विभ्रमकल्पनायामुत्पादविनाशयोरनाश्वासः, तथानुभवनिर्णयानुपलब्धेर्यथा स्वलक्षणं परिगीयते ।
सोऽयं प्रतिक्षणमुत्पादविनाशौ सर्वथा स्थितिरहितौ सकृदप्यनिश्चिन्वन्नेव स्थित्यनुभवनिर्णयं विभ्रान्तं कल्पयतीति कथं न निरात्मक एव ?
[नित्यैकान्तपक्षेऽपि प्रत्यभिज्ञानं न सम्भवति] (भा० ) तत्रैतस्त्यात् स्वभावाविनिर्भागेऽपि न सङ्कलनं दर्शनक्षणान्तरवत् ।