________________
५१२
अष्टसहस्त्रीतात्पर्यविवरणम्
न ह्येकस्मिन्दर्शनविषये क्षणेऽविनिर्भागेऽपि प्रत्यभिज्ञानमस्तीति ।
(भा०) सत्यमेकान्ते एवायं दोषः, सर्वथा नित्ये पौर्वापर्यायोगात् प्रत्यभिज्ञानासम्भवात् । (भा० ) ततः क्षणिकं कालभेदात् । न चायमसिद्धः, (भा०) दर्शनप्रत्यभिज्ञानसमययोरभेदे तदुभयाभावप्रसङ्गात् ।
दर्शनसमयस्याभेदे तन्निर्णयानुपपत्तेः, प्रत्यभिज्ञानसमयस्याभेदे पूर्वापरपर्यायव्याप्येकद्रव्यप्रत्यवमर्शासम्भवात् । ततो दर्शनकालोऽवग्रहेहावायधारणात्मकनिर्णयहेतुर्भिन्न एव, प्रत्यभिज्ञानकालश्च पुनस्तदर्शनस्मरणसङ्कलनहेतुरिति प्रतिपत्तव्यम् ।
(भा०) किञ्च पक्षद्वयेऽपि ज्ञानासञ्चारानुषङ्गादनेकान्तसिद्धिः ।
न हि नित्यत्वैकान्तपक्षवत्क्षणिकैकान्तपक्षेऽपि ज्ञानसञ्चारोऽस्ति, तस्यानेकान्ते एव प्रतीतेः । केवलम्
(भा०) अपोद्धारकल्पनया कथञ्चिज्जात्यन्तरेऽपि वस्तुनि प्रत्यभिज्ञानादिनिबन्धने स्थित्यादयो व्यवस्थाप्येरन् ।
सर्वथा जात्यन्तरे तदपोद्धारकल्पनानुपपत्तेः स्थित्यादिस्वभावभेदव्यवस्थानाघटनात्, सर्वथा तदजात्यन्तरवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
योगिप्रत्यक्षत्वापत्तिः । ततः क्षणिकं कालभेदादिति नानाक्षणसम्बन्धभेदादित्यर्थः । अपोद्धारकल्पनयेति अपोद्धारकल्पना तत्तन्निमित्तभेदविवेचनं, कथञ्चिज्जात्यन्तरे= सखण्डधर्मतादात्म्यसहिष्णावखण्डपदार्थे । सर्वथा जात्यन्तरे सर्वथा नित्ये सर्वथाऽनित्ये च परस्परनिरपेक्षे । अशक्यविवेचनत्वस्यैकत्वनिबन्धनत्वेऽतिप्रसङ्गमाशङ्कते-न चेत्यादिना