________________
द्वितीयो भागः [ परि. ३-का. ५६]
५१३
[एकस्मिन् वस्तुनि उत्पादादित्रयेण स्वभावभेदे सत्यपि नानात्वविरोधादिदोषा न सम्भवन्ति ।]
(भा०) न च स्वभावभेदोपलम्भेऽपि नानात्वविरोधसङ्करानवस्थानुषङ्गश्चेतसि ग्राह्यग्राहकाकारवत् ।
न ह्येकस्य वस्तुनः सकृदनेकस्वभावोपलम्भे नानात्वप्रसङ्गः, संविद्वेद्यवेदकाकाराणां नानाज्ञानत्वप्रसङ्गात् । तेषामशक्यविवेचनत्वादेकज्ञानत्वे स्थितिजन्मविनाशानामपि क्वचिदेकवस्तुत्वमस्तु, तदविशेषात् । क्वचिदेकत्र रूपरसादीनामप्यशक्यविवेचनानामेकवस्तुत्वापत्तिर्नानिष्टकारिणी, तेषां नानावस्तुत्वानिष्टेः । न चात्माकाशादीनां देशाभेदेऽप्यशक्यविवेचनत्वं, तेषां परैकद्रव्यतादात्म्याभावात् । सत्तैकद्रव्यतादात्म्ये पुनरेकवस्तुत्वमिष्टमेव स्याद्वादिनाम् ।
___ एकं द्रव्यमनन्तपर्यायम् इति वचनात् [ ] । ततो न वैयधिकरण्यम् । एतेनोभयदोषप्रसङ्गोऽपास्तो, वेद्याद्याकारात्मबोधवदुत्पादाद्यात्मवस्तुनो जात्यन्तरत्वात्, अचौरपारदारिकवच्चौरपारदारिकाभ्याम् । न चैवं विरोधप्रसङ्गः, तस्यानुपलम्भसाधनादेकत्रैकदा शीतोष्णस्पर्शवत्, स्थित्यादिषु चोपलम्भसद्भावादेकवस्तुन्येकदानुपलम्भासिद्धेः संविदि वेद्याद्याकारवत् । एतेन संशयप्रसङ्गः प्रत्युक्तः,
अष्टसहस्त्रीतात्पर्यविवरणम् - अशक्यविवेचनत्वं तत्रासिद्धम्, आश्रयभेदेन विवेचनशक्तेरित्युत्तरयति-तेषामित्यादिना तत्रैकद्रव्यमित्यन्तेन । सदाद्यात्मनाऽऽकाशादीनां तादात्म्याश्रयणे तु सङ्ग्रहनयार्पणया देशाभेदेनैकद्रव्यत्वमिष्टमेवेत्याह-तादात्म्ये पुनरित्यादिना इदं तु ध्येयम्, सत्त्वादिनात्माकाशादीनामेकत्वं यद्यपि एकजातीयत्वव्यवहारनिबन्धनं, न त्वेकद्रव्यत्वव्यवहारनिबन्धनं, घटादिपर्याये मृदादौ सत्त्वादिनैकद्रव्यत्वानिष्टेः, तथापि सत्त्वादिपर्याये द्रव्यत्वेनैवोर्ध्वतासामान्यत्वात्सदात्मनैकद्रव्यत्वं सर्वत्राविरुद्धं, तथा व्यवहारश्च सत्त्वादिपर्याप्त्याश्रयतावच्छेदकावच्छेदेनैव, तेन सर्वमेकं द्रव्यं सदविशेषादितिवत् घट एक द्रव्यमित्यादिर्न प्रयोग इति सूक्ष्ममीक्षितव्यम् । उभयदोषप्रसङ्ग एकत्वानेकत्वपक्षयोः सौगताद्वैतवाद्यापादितदोषापत्तिः । अचौरेति चौरात्पारदारिकाच्च यथाऽचौरापारदारिको जात्यन्तरं, तथा केवलादुत्पादादेस्त्रयात्मकं वस्तु इति भावः । अनुपलम्भ साधनत्वादिति, एकग्रहप्रतिबन्धकग्रहविषयत्वस्यैवान्यत्र विरोधपदार्थत्वोक्ते रिति भावः ।
१. साधनादिति अष्टसहस्रीसम्मतः पाठः ।