________________
५०१
द्वितीयो भागः [ परि० ३-का० ५३] हेतुव्यतिरिक्तहेत्वभावात् पूर्वाकारविनाशस्याहेतुकत्वमुपयन्नाशहेतुव्यतिरिक्तहेत्वभावादुत्तरोत्पादस्याहेतुकत्वं नानुमन्यते इति कथमनाकुलः ? । [विनाशः स्वभावतः एवेति मन्यमाने जैनाचार्या नाशोत्पादौ एकहेतुकौ एव मन्यन्ते ।]
(भा०) विसभागसन्तानोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय, पूर्वस्य स्वरसतो निवृत्तेरिति चेत्, स पुनरुत्तरोत्पादः स्वरसतः किन्न स्यात् ? ।
तद्धेतोरप्यकिञ्चित्करत्वसमर्थनाद्,
(भा०) विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनन्तरभावित्वात्तेन व्यपदिश्यते इति चेदितरत्र समानम् ।।
कार्यक्षणवत्पूर्वक्षणप्रध्वंसस्यापि हेत्वनन्तरभावित्वाविशेषात्तेन व्यपदेशोऽस्तु, न वा, कार्यस्यापीत्यविशेषः ।
__ (भा०) परमार्थतस्तदहेतुकत्वे प्रतिपत्त्रभिप्रायाविशेषेऽपि स्वतःप्रहाणवादी न शक्नोत्यात्मानं न्यायमार्गमनुकारयितुं,
तथा वदतस्तस्य न्यायातिक्रमात् । न च निरन्वयविनाशवादिनः सभागविसभागविवेकः श्रेयान्,
(भा०) सर्वदा विरूपकार्यत्वात् । कारणस्य कथञ्चिदन्वयापाये सभागप्रत्ययायोगात् ।
(भा०) सभागविसभागावक्तृप्ति प्रतिपत्त्रभिप्रायवशात्समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् ? न च समनन्तरक्षणयोर्नाशोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां, प्रतिपत्त्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत्, स्वभावप्रतिबन्धात् ।
न हि तयोमिथः कार्यकारणभावः प्रतिबन्धः, समसमयत्वात् नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः इति वचनात् [ ] ।
- अष्टसहस्त्रीतात्पर्यविवरणम् अपृथक्सिद्धयोर्द्वयोरिव, ततः किं नानुजानीयादिति, ततः प्रतिपत्रभिप्रायवशात्, समनन्तरक्षणयोः=अव्यवहितपूर्वोत्तरक्षणयोः, प्रतिपत्त्यभिधानभेदेऽपीति अयमुत्पादोऽयं च