________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) अहेतुं विनाशमभ्युपगम्य कस्यचिद्यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ? तथा निर्वाणं सन्तानासमूलतलप्रहाणलक्षणं सम्यक्त्वसञ्ज्ञासञ्ज्ञिवाक्कायकर्मान्तर्व्यायामाजीवस्मृतिसमाधिलक्षणाष्टाङ्गहेतुकं
५००
यदि ब्रूयात्तदापि कथं स्वस्थः ? तयोरहेतुकविनाशाभ्युपगमहिंसकत्वयोरष्टाङ्गहेतुकत्वनिर्वाणवचनयोः
( भा० ) चान्योन्यं विप्रतिषेधात् ।
सुगतस्य सर्वज्ञत्वेतरवत् ॥५२॥
विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥५३॥
विसदृशरूपं विरूपं कार्यम् । तदारम्भाय हिंसाहेतुर्बन्धकस्य मोक्षहेतोश्चाष्टाङ्गस्य सम्यक्त्वादेः समागमो व्यापारो यदि ताथागतैरिष्यते तदासौ हेतुसमागम एवाश्रयो, नाशोत्पादयोः कारणत्वात् । स चाश्रयिभ्यां कार्यरूपाभ्यां नाशोत्पादाभ्यामनन्य एव, न पुनर्भिन्नः, तयोरविशेषादयुक्तवत् । यथैव हि शिंशपात्ववृक्षत्वयोश्चित्रज्ञाननीलादिनिर्भासयोर्वा तादात्म्यमापन्नयोरयुक्तयोः कारणसन्निपातो न भिन्नः सम्भवत्येककारणकलापादेवात्मलाभादन्यथा तादात्म्यविरोधात् । तथैव पूर्वाकारविनाशोत्तराकारोत्पादयोरपि, नीरूपस्य विनाशस्यानिष्टेरुत्तरोत्पादरूपत्वाभ्युपगमात् तयोर्भिन्नकारणत्वे तद्विरोधान्ततान्तरप्रवेशानुषङ्गाच्च । सोऽयं विसदृशकार्योत्पाद
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्यक्त्वेत्यादि (१) सम्यक्त्वं = बुद्धधर्मश्रद्धा, (२) सञ्ज्ञा = स्त्र्याद्यभिधानं (३) सञ्ज्ञी स्त्र्यादिरेव (४) वाक्कायव्यापारस्तत्कर्म (५) अन्तर्व्यायामो वायुनिरोध: (६) अजीवो जीवाभावो नैरात्म्यमिति यावत् (७) स्मृतिः = पिटकत्रयार्थानुचिन्तनं (८) ध्यानं =समाधिः एतान्यौचित्येन प्रवृत्तिनिवृत्तिद्वाराऽष्टौ निवार्णाङ्गानि सौगतानाम् ॥५२॥
हेतुसमागमः समागतो हेतुः स्वेतरसकलकारणसंभृतमुपादानकारणमिति यावत् । आश्रयिभ्यां=उपादेयत्वेनाधेयाभ्याम्, अनन्यः प्राप्नोतीति शेषः, अयुक्तवद्=