________________
द्वितीयो भागः [ परि०३-का० ५२]
४९९ वासनायाश्चासम्भवात् । अनभिसन्धिमदेवोत्तरं चित्तं हिनस्ति । तत एव हिंसाभिसन्धिहिंसाचित्तद्वयादपेतं चित्तं बध्यते । यच्च बद्धं तन्न मुच्यते, ततोऽन्यस्य मुक्तेः । इति कोऽन्यः प्रकाशयेन्निरन्वयात् तस्यैवम् ?
(भा०) सन्तानादेरयोगादितिकर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्घत्वात् तदुभयविनिर्मुक्तस्य बन्धात्तदविनिर्मुक्तेश्च यमनिमादेरविधेयत्वं, कुर्वतो वा यत्किञ्चनकारित्वं
प्रत्येतव्यम् । न चैवमनेकान्तवादिनः, प्रतिक्षणं परिणामान्यत्वेऽपि जीवद्रव्यस्यान्वयात् चिकीर्पोरेवेतिकर्तव्यतासु कर्तृत्वात्कतुरेव च कर्मबन्धाद् बद्धस्यैव विनिर्मुक्तेः सर्वथा विरोधाभावात् । क्षणिकवादिनामपि सन्तानस्यैकत्वात्पूर्वपूर्ववासनोपहितोत्तरोत्तरचित्तविशेषस्योत्पत्तेरनुपालम्भ इति चेत्, न सन्तानस्यावास्तवत्वाद्वास्यवासकभावस्याप्यसम्भवादव्यभिचारकार्यकारणाभावस्यापि तन्नियमहेतुत्वायोगात् सुगतेतरचित्तसन्तानेष्वपि भावादिति निरूपितत्वाच्च ॥५१॥ क्षणिकैकान्तवादिनाम्
अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥५२॥
सर्वथापि
अष्टसहस्त्रीतात्पर्यविवरणम्
त्वादितरस्याऽविनिगम्यत्वात् ॥५०॥
निरन्वयादिति निरन्वयशब्दो निर्वंशत्वाध्यवसायेनान्वयाभाववादिनं सौगतं लक्षयंस्तस्य निन्द्यतामभिव्यनक्ति । इतिकर्तव्यतासुक्रमनियतासु क्रियासु, अचिकीर्षत्वादिति न विद्यते चिकीर्षा यस्य क्षणस्य तत्त्वादित्यर्थः तदुभयेति चिकीर्षाकर्तृक्षणविनिर्मुक्तस्य तृतीयस्य बद्धत्वादित्यर्थः । तदविनिर्मुक्तेः बद्धक्षणस्याऽमोक्षात्, अभिधेयत्वम् अभिधामात्रेणात्मन आश्वासः, कुर्वतो वा यत्किञ्चनकारित्वम् अबुद्धिपूर्वकप्रयासमात्रम्, पूर्वपूर्वक्षणानामुत्तरत्रानन्वयेन कार्यकारणसामानाधिकरण्याद्यभावादित्यर्थः ॥५१॥