________________
४९८
अष्टसहस्त्रीतात्पर्यविवरणम् शब्दविकल्पकालवत् प्रत्यक्षप्रतिभासकालेऽपि विषयस्यासम्भवात्, सम्भवे वा क्षणिकत्वविरोधाद्वैद्यवेदकयोः समानसमयत्वप्रसङ्गाच्च । अथ भिन्नकालत्वेऽपि विषयात्प्रत्यक्षस्य
(भा०) अविपरीतप्रतिपत्तिः, अन्यत्रापि
सास्त्येव । न हि शब्दादर्थं परिच्छेद्य प्रवर्तमानो विपरीतं प्रतिपद्यते प्रत्यक्षादिव प्रतिपत्ता, येन दर्शने एवाविपरीतप्रतिपत्तिर्भवति न पुनः शाब्देऽपीति बुध्यामहे । क्वचिद्विकल्पे विपरीतप्रतिपत्तिमुपलभ्य सर्वत्र विपरीतप्रतिपत्तिकल्पनायां क्वचिद्दर्शनेऽपि विपरीतप्रतिपत्तिं समीक्ष्य सर्वत्र तत्कल्पनास्तु, विशेषाभावात् ।
(भा०) दर्शनविकल्पयोः परमार्थेकतानत्वाभावे न किञ्चित्सिद्धम् । दृष्टस्यानिर्णयाददृष्टकल्पनाददृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात्
कुतो दर्शनस्य कल्पनापोढस्यापि परमार्थंकतानत्वम् ? न हि दृष्टे स्वलक्षणे निर्णयः सम्भवति, तस्य तदविषयत्वात् । अदृष्टे तु सामान्यलक्षणे निर्णयः प्रवर्तमानो न प्रधानादिविकल्पाद्विशेष्यते, इति सकलप्रमाणाभावात्प्रमेयाभावसिद्धेरवक्तव्यतैकान्तवादिनां नैरात्म्यमेवायातं, सर्वथाप्यशक्यसमयत्वेनाप्यशक्यत्वपक्षस्यासम्भवादनवबोधपक्षवदभावस्यैव निर्व्याजत्वसिद्धेः । ततः क्षणक्षयैकान्तपक्षे कृतनाशाकृताभ्यागमप्रसङ्गः, स चोपहासास्पदमेव स्यात् ॥५०॥ तथा हि
हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् ।
बध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥५१॥ हिंसाभिसन्धिमच्चित्तं न हिनस्त्येव प्राणिनं, तस्य निरन्वयनाशात् सन्तानस्य
अष्टसहस्त्रीतात्पर्यविवरणम् ।
भावाभावविषयत्वाद्विशेष इत्यर्थः । समानसमयत्वप्रसङ्गादिति क्षणिकत्वविरोधे हेतुत्वेनान्वेति, प्रत्यक्षकालवृत्तेविषयस्य तद्धेतुत्वरक्षायै प्राक्कालवृत्तित्वस्याप्यभ्युपगमे क्षणिकत्वविरोधस्य स्पष्टत्वात् । द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वस्यैव क्षणिकलक्षण