________________
४९७
द्वितीयो भागः [ परि०३-का० ५०]
(भा०) न च सर्वत्र तदभावो युक्तः ।
कस्यचित्क्वचिदवबोधसद्भावात् सुगतस्य प्रज्ञापारमितत्वात् क्षमामैत्रीध्यानदानवीर्यशीलप्रज्ञाकरुणोपायप्रमोदलक्षणदशबलत्वोपगमाच्च कस्यचिदेव करणापाटवात् । तदनेनाशक्यत्वानवबोधवचनलक्षणस्याद्यन्तोक्तिद्वयस्यासम्भवो व्याख्यातः । सामर्थ्यादर्थस्याभावादेवावाच्यत्वमिति किं व्याजेनावक्तव्यं तत्त्वमिति वचनरूपेण ? स्फुटमभिधीयतां सर्वथार्थाभाव इति, तथा वचने वञ्चकत्वायोगादन्यथानाप्तत्वप्रसक्तेः ।
[तत्त्वस्याभावत्वादवाच्यत्वं तर्हि शून्यवाद एव सिद्ध्यति ।] (भा०) ततो नैरात्म्यान्न विशेष्येत, मध्यमपक्षावलम्बनात् । को ह्यत्र विशेषोऽर्थस्याभावादवाच्यत्वं नैरात्म्यमिति च ? ।
(भा० ) अशक्यसमयत्वादनभिलाप्यमर्थरूपमिति चेत्, न कथञ्चिच्छक्यसङ्केतत्वाद् । दृश्यविकल्पस्वभावत्वात्परमार्थस्य प्रतिभासभेदेऽपीत्युक्तम् ।
न हि दृश्यस्वभाव एव परमार्थो न पुनर्विकल्प्यस्वभावः सामान्यं, विशेषवत्सामान्यस्यापि वस्तुरूपत्वसाधनादन्यथा प्रतीत्यभावात्, सामान्यविशेषात्मनो जात्यन्तरस्य प्रत्यक्षादौ प्रतिभासनाच्च । न चैवं दृश्यलक्षणेषु सङ्केतकरणाशक्तावपि विकल्प्ये सामान्ये क्वचिदशक्यसङ्केतत्वं येनाशक्यसमत्वादनभिलाप्यमर्थरूपं भवेत्, कथञ्चिच्छक्यसङ्केतत्वसिद्धेः । स्यान्मतं-'सङ्केतितार्थस्य शब्दविषयस्य व्यवहारकालेऽननुगमनाद्विषयिणः शब्दस्य न तद्वाचकत्वमन्यथातिप्रसङ्गात्' इति, तदेतद् (भा०) विषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समानं,
- अष्टसहस्त्रीतात्पर्यविवरणम् शक्य इत्यर्थः । तदभावो=अवबोधाभावः । आद्यन्तोक्तिद्वयस्येति कारिकाक्रमापेक्षया । को 'ह्यर्थविशेष इति, अर्यत इत्यर्थः, इति व्युत्पत्त्या को हि प्रकारभेद इत्यर्थः । अवाच्यत्वं नैरात्म्यमिति अवाच्यत्वं नैरात्म्यं चेति पक्षयोरित्यर्थः । अर्थरूपमिति तथा च
१. को पत्र विशेषः इति अष्टसहस्रीसम्मतः पाठः ।