________________
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वथानभिलाप्यानां सर्वधर्माणामनभिलाप्या इति वचनेनाप्यभिलाप्यत्वासम्भवात्तथा परप्रत्यायनायोगात् ॥४९॥
किञ्चेदं तत्त्वम्
अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।
आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् ॥५०॥
४९६
[तत्त्वमवाच्यं कथम् ? ]
( भा० ) अर्थस्यानभिलाप्यत्वमभावाद्वक्तुरशक्तेरनवबोधाद्वा ? प्रकारान्तरासम्भवात् ।
ननु च मौनव्रतात्प्रयोजनाभावाद्भयाल्लज्जादेर्वाऽनभिलाप्यत्वसिद्धेः कथं प्रकारान्तरासम्भव इति चेत्, न मौनव्रतादीनामशक्यत्वेऽन्तर्भावात् तेषां करणव्यापारशक्तिनिमित्तत्वाच्च । न चैवमनवबोधस्ततः प्रकारान्तरं न स्यात्, तत्त्वावबोधे सति करणव्यापाराशक्तावप्यन्तर्जल्पसम्भवात् । तत्त्वावबोधाभावेऽपि च करणव्यापारशक्तिसद्भावात् । अनवबोधाशक्यत्वयोरिह
( भा० ) बुद्धिकरणपाटवापेक्षत्वात्
प्रकारान्तरत्वमेव ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मौनव्रतादीनामशक्यत्वेऽन्तर्भावादिति वचनजनककरणवीर्याविषयत्वस्यैवाशक्यपदार्थत्वात् सिद्धैर्वक्तुमशक्यत्वस्येत्थमेवोपपत्तेरिति भावः । उक्तमेव हेतुना विशदीकरोति - तेषामिति । तथा वचने यथा तात्पर्यं नियामकमनुगतत्वान्न तु तदुत्थापकानि प्रकरणादीन्यननुगतत्वात्, तथाऽवचनेऽशक्यत्वमेव नियामकमनुगतत्वात् न तु तदुत्थापकानि मौनव्रतादीन्यननुगतत्वादिति भावः । न चैवमिति एवं मौनव्रतादीनामशक्यत्वेऽन्तर्भावे, अन्तर्जल्पसम्भवादिति बहिः स्पष्टोच्चाराभावेऽप्यन्तर्वचनजनककरणवीर्यसत्त्वादन्यथाऽन्तर्जल्पाप्रत्यक्षापत्तेर्मध्यमावैखर्योर्भेदानापत्तेश्चेति भावः । तत्त्वावबोधाभावेऽपि चेति तथा च तद्भावाभावयोर्भावादनवबोधव्यभिचारित्वमशक्यत्वस्येति न तत्रानवबोधोऽन्तर्भावयितुं