________________
४९५
द्वितीयो भागः [परि० ३-का. ४९] संवृत्या चेत्सर्वे धर्मा इत्यवक्तव्या इति चाभिलप्यन्ते भवद्भिर्न (भा०) विकल्पानुपपत्तेः ।
[संवृतिशब्दस्य कोऽर्थः ?] संवृत्येति हि स्वरूपेण पररूपेणोभयरूपेण वा तत्त्वेन मृषात्वेनेति वा विकल्पेषु नोपपद्यते । तत्र संवृत्या वक्तव्या इति
(भा०) स्वरूपेण चेत्कथमनभिलाप्याः ?, स्वरूपेणाभिलाप्यानामनभिलाप्यत्वविरोधात् । (भा०) पररूपेण चेत्तेषां स्वरूपं स्याद्, येनाभिलाप्याः । (भा०) केवलं वाचः स्खलनं गम्येत ।
गोत्रस्खलनवत् । स्वरूपेणेति वक्तव्ये पररूपेणेति वचनात्, विशेषरूपवत् सामान्यरूपस्यापि वक्तव्यतयाङ्गीक्रियमाणस्य स्वरूपत्वात्, तस्यास्वरूपत्वे विशेषरूपस्याप्यस्वरूपत्वापत्तेः स्वयं नि:स्वरूपत्वप्रसङ्गात् ।
(भा०) उभयपक्षेऽप्युभयदोषानुषङ्गः । तत्त्वेन चेत्कथमवक्तव्याः ? ।
केवलं वचःस्खलनं गम्येत, तत्त्वेन वक्तव्या इति वचने प्रस्तुते संवृत्या वक्तव्या इति वचनप्रवृत्तेः ।
(भा०) मृषात्वेन चेत्कथमुक्ताः ?, सर्वथा मृषोक्तानामनुक्तसमत्वात् । ( भा० ) तदलमप्रतिष्ठितमिथ्याविकल्पौधैः ।
- अष्टसहस्त्रीतात्पर्यविवरणम् इति श्लोकः स्मर्त्तव्यः । परानिति परान् प्रतीति प्रतिपादयत इवेति योजना कर्त्तव्या । ननु स्वरूपं विशेषरूपमेव पररूपं तु सामान्यरूपं ततश्च सामान्यरूपेणाभिलाप्यत्वे सत्यपि विशेषरूपेणावक्तव्यत्वसद्भावात् कथं वाचः स्खलनं गम्यतेत्याशङ्कायाम् आह-विशेषरूपवदिति ॥४९।।