________________
४९४
अष्टसहस्त्रीतात्पर्यविवरणम् [एकत्र वस्तुनि एकत्वद्वित्वादिसङ्ख्या निर्बाधं सम्भवन्तीति स्पष्टयन्ति ।]
न ह्येकत्र द्रव्ये द्रव्यान्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षैकत्वसङ्ख्यातोऽनन्या प्रतीयते । नापि सोभयी तद्वतो भिन्नैव, तस्यासङ्ख्येयत्वप्रसङ्गात्, सङ्ख्यासमवायादपि तथात्वासिद्धेः, समवायस्य तदसम्बन्धात् तस्य स्वसमवायिसम्बन्धकल्पनायामप्यनवस्थानुषङ्गात् कथञ्चित्तादात्म्यमन्तरेण समवायासम्भवाच्च । तद्वन्न भावाभावौ वस्तुनोऽन्यावेव, निःस्वभावत्वप्रसक्तेः । अथ सत्त्वासत्त्वाभ्यामन्यस्यापि वस्तुनो द्रव्यत्वादिस्वभावसद्भावान्न नि:स्वभावत्वमिति मतं तदप्यसाधीयो, द्रव्यत्वाद्र व्यत्वाभ्यामपि तस्यान्यत्वात् । ताभ्यामनन्यत्वे कथञ्चिद्भावाभावाभ्यामप्यनन्यत्वसिद्धेः स्वभावपरभावाभ्यां वस्तुनो भावाभावव्यवस्थितिः किं न स्याद्यतः खे पुष्पाभावोऽभिलाप्यो वस्त्वेव न भवेत् ? इति निरवद्यमुदाहरणम् ॥४८।। किं च क्षणिकैकान्तवादिनाम्
सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः ? ।
संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥४९॥ परेषां सर्वे धर्मा यद्यवक्तव्या एव तदा तेषां किं पुनर्वचनं धर्मदेशनारूपं परार्थानुमानलक्षणं साधनदूषणवचनं वा ? न किञ्चित् स्यादिति मौनमेव शरणम् । यदि पुनः संवृतिरूपं वचनमुपगम्यते तदापि मृषैव संवृतिरेषाभ्युपगन्तव्या, परमार्थविपर्ययरूपत्वात्तस्याः इति तत्त्वतः किं वचनं स्यात् ?
(भा०) पुनरप्यवक्तव्यवादिनं पर्यनुयुज्महे, सर्वे धर्मा यदि वाग्गोचरातीताः कथमिमेऽभिलप्यन्ते ? इति स्ववचनविरोधानुषङ्गात् सर्वदा मौनव्रतिकोऽहमिति प्रतिपादयत इव परान् ।
- अष्टसहस्रीतात्पर्यविवरणम् सर्वदा मौनव्रतिकोऽहमितीति इत्येतत्प्रकारं, तेन
यावज्जीवमहं मौनी ब्रह्मचारी तु मत्पिता । मम माता च वन्ध्या च स्मराभोऽनुपमो महान् ॥१॥ [