________________
४९३
द्वितीयो भाग: [ परि०३-का० ४८] घटस्य घटान्तररूपेणाघटत्ववत् कस्यचिद्वस्तुनो वस्त्वन्तररूपेणावस्तुत्वप्रतीतेः । ननु परस्परविरुद्धमिदमभिहितं वस्तुत्वेतरयोरन्योन्यपरिहारस्थितत्वादिति चेद्
(भा०) भावव्यतिरेकवाचिभिरपि वाक्यतामापन्नैर्भावाभिधानान्नात्र किञ्चिद्विरुद्धम् ।
न ह्यब्राह्मणमानयेत्यादिशब्दैर्वाक्यत्वमुपगतैाह्मणादिपदार्थाभाववाचिभिस्तदन्यक्षत्रियादिभावाभिधानमसिद्धं येनावस्त्वनभिलाप्यं स्यादिति शब्देन वाक्यतामुपगतेन वस्तुशून्यत्ववाचिना वस्त्वन्तराभिधानं विरुद्ध्यते ।
(भा० ) अतः सूक्तं 'यदवस्तु तदनभिलाप्यं यथा न किञ्चित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पाभावः' इति ।
नात्र साध्यविकलमुदाहरणं खे पुष्पाभावस्य खस्वरूपत्वात् । सुप्रतीतं हि लोके
(भा० ) अन्यस्य कैवल्यमितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितेर्भावस्य । [एकत्रैव वस्तुनि भावाभावधर्मों वर्तेते किन्तु केन प्रकारेणेयं मान्यता सृष्ठ ?
तस्य स्पष्टीकरणं क्रियते ।] न हि वस्तुनः सर्वथा भाव एव, स्वरूपेणेव पररूपेणापि भावप्रसङ्गात् । नाप्यभाव एव, पररूपेणेव स्वरूपेणाप्यभावप्रसङ्गात् । न च स्वरूपेण भाव एव पररूपेणाभावः, परात्मना चाभाव एव स्वात्मना भाव इति वक्तुं युक्तं, तदपेक्षणीयनिमित्तभेदात् । स्वात्मानं हि निमित्तमपेक्ष्य भावप्रत्ययमुपजनयति सर्वोऽर्थः, परात्मानं त्वपेक्ष्याभावप्रत्ययम् इति एकत्वद्वित्वादिसङ्ख्यावदेकत्र वस्तुनि भावाभावयोर्भेदो व्यवतिष्ठते ।
- अष्टसहस्रीतात्पर्यविवरणम् अवस्तुत्वप्रतीतेरिति तथा च वैज्ञानिकसम्बन्धेनावस्तुत्ववति तेन सम्बन्धेन सर्वथानभिलाप्यत्वाद्यभिधानमविरुद्धं मिथ्यारजतमरजतमितिवदिति भावः । भावाभिधानादिति शक्तिलक्षणाभ्यामुभयोपपत्तेरेकपदशक्ययोः परस्परमन्वयो व्युत्पत्तिविशेषादिति नव्यमताश्रयणादिति भावः । तद्वतो भिन्नैवेति तद्वतः=एकत्वसङ्ख्यावतः, एकत्वविशिष्टाभेदसिद्धौ च द्वित्वे सङ्ख्यात्वेनैकत्वाभेदः सिद्ध एवेति भावः ॥४८॥