________________
४९२
अष्टसहस्त्रीतात्पर्यविवरणम् स्वलक्षणं हि स्वरूपेणासाधारणेनानिर्देश्यं नानिर्देश्यमिति शब्देन तथा निर्देश्यत्वादन्यथा वचनविरोधात् । तथा प्रत्यक्षं कल्पनापोढमपि स्वरूपेण कल्पनापोढमेव, न कल्पनापोढमिति कल्पनापेक्षया तस्यान्यथा कल्पनापोढत्वेन कल्पनाविरोधात्, सकलविकल्पवाग्गोचरातीतस्य निरुपाख्यत्वप्रसङ्गात् । तद्वत्स्याद्वादिनां न किञ्चिद्विप्रतिषिद्धम् ।
(भा० ) अभावोऽनभिलाप्य इत्यपि भावाभिधानादेकान्तवृत्तावेवदोषोद्भावाभिधानैरपि कथञ्चिदभावाभिधानात् ।
यथैव ह्यभाव इति भावान्तरमभिधीयतेऽनभिलाप्य इति चाभिलाप्यान्तरं तथा भावोऽभिलाप्य इत्यपि भावान्तराभिलाप्यान्तराभावः कथ्यते, तथा प्रतीतेः । अभावशब्दैर्भावशब्दैश्चाभावस्य भावस्य चैकान्ततोऽभिधाने शाब्दव्यवहारविरोधात्, तस्य प्रधानगुणभावेन विधिनिषेधयोरुपलम्भात्, तथैव प्रवृत्तिनिवृत्त्योरविसंवादसिद्धेरन्यथा विसंवादात् । ततः सूक्तमिदम् असतेंदो न भावस्तु स्थानं विधिनिषेधयोः इति कथञ्चित्सद्विशेषस्यैव पदार्थस्य विधिनिषेधाधिकरणत्वसमर्थनात् ॥४७॥ तथा च पराभ्युपगतमेव तत्त्वं सर्वथानभिलाप्यमायातमित्यभिधीयते
अवस्त्वनभिलाप्यं स्यात्सर्वान्तैः परिवर्जितम् ।
वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥४८॥ सकलधर्मविधुरमर्मिस्वभावं तावदवस्त्वेव सकलप्रमाणाविषयत्वात् । तदेवानभिलाप्यं युक्तं, न पुनर्वस्तु प्रमाणपरिनिष्ठितम् । तदपि सर्वान्तैः परिवर्जितमवस्तु परपरिकल्पनामात्रादभिधीयते न पुनः प्रमाणसामर्थ्यात्, कस्यचिद्वस्तुन एव स्वद्रव्याद्यपेक्षालक्षणप्रक्रियाया विपर्यासादवस्तुत्वव्यवस्थितेः, स्वरूपसिद्धस्य
- अष्टसहस्त्रीतात्पर्यविवरणम् चाविशेष्यविशेषणत्वम् । ननु भावाभावोभयकरम्बितैकवस्त्वभ्युपगमात् कथञ्चिदनभिलाप्यत्वादेरप्युभयाश्रयत्वादेको द्वावितिवदभावोऽनभिलाप्य इत्यादि कथं न विप्रतिषिद्धमिति चेत्, उभयत्वादेः पर्याप्त्यनवच्छेदकत्वात् पर्याप्त्यन्यसम्बन्धस्य विशेषणसंसर्गत्वाद्वेत्याशयवानाह भाष्यकृत्-अभावोऽनभिलाप्य इत्यादिना । तदेव विवृणोति वृत्तिकृत्-यथैव ह्यभाव इतीत्यादिना । असद्भेद इति असदन्तरम् ॥४७॥