________________
द्वितीयो भाग: [ परि० ३ - का० ४७ ]
चाविशेष्यमविशेषणं च किञ्चिदध्यक्षसंविदि प्रतिभासते, स्वसंवेदनस्यापि सत्त्वविशेषणविशिष्टतया विशेष्यस्यैवावभासनात् । तदुत्तरविकल्पबुद्धौ स्वस्य संवेदनमिति विशेषणविशेष्यभावोऽवभासते, न तु स्वरूपे तस्येति चेत्, तर्हि किमविशेष्यविशेषणं संवेदनमिति स्वतः प्रतिभासते ? तथोपगमे सिद्धो विशेषणविशेष्यभावः संविदि, तत्राविशेषणविशेष्यत्वस्यैव विशेषणत्वात् सर्वथाप्यसतो विशेषणविशेष्यत्वस्य प्रतिषेधायोगात् ॥ ४६ ॥ तथा हि
द्रव्याद्यन्तरभावेन निषेधः सञ्ज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥४७॥
[सद्वस्तुन्येव विधिनिषेधौ घटेते न पुनः असद्वस्तुनि ।] ( भा० ) द्रव्यक्षेत्रकालभावान्तरैः प्रतिषेधः सञ्ज्ञिनः सतः क्रियते स्वद्रव्यक्षेत्रकालभावैर्न
४९१
( भा० ) पुनरसतः, तद्विधिप्रतिषेधाविषयत्वात् ।
द्रव्याद्यन्तरभावेनेव स्वद्रव्यादिभावेनाप्यसत्त्वे कुतो विधिर्नाम ? । तदभावे न प्रतिषेधस्तस्य कथञ्चिद्विधिपूर्वकत्वात् । ततः कथञ्चिदभिलाप्यस्य सतः प्रतिषेधादनभिलाप्यत्वं युक्तम् । कथञ्चिद्विशेषणविशेष्यात्मनश्च सतोऽविशेष्यविशेषणत्वम् । इति नैकान्ततः किञ्चिदनभिलाप्यमविशेष्यविशेषणं वाभ्युपज्ञातव्यम् ।
[बौद्धैः स्वयमेवेति कथितं यत् "स्वलक्षणमनिर्देश्यं प्रत्यक्षकल्पनारहितं" तदपि एकान्ते न सम्भवति अनेकान्तमते एव सम्भवति ।]
( भा० ) न चैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्यमवस्त्विति वेति इतेर्द्विधान्वयादनभिलाप्यमित्यवस्त्विति वा विशेषणं न स्वीकुरुत इत्यर्थः । यतो विशेष्यं स्यादिति एवं च विशेष्यस्य विशेषणसापेक्षत्वाद्विशेषणाभावादविशेष्यं विशेष्याभावाच्चाविशेषणं जातमित्यर्थः । तादृशि च प्रत्यक्षविरोध इत्याह-न चाविशेष्यमित्यादि ॥४६॥
न चैतद्विरुद्धमिति एतदभिलाप्यस्यैवानभिलाप्यत्वं विशेषणविशेष्यरूपस्यैव