________________
४९०
अष्टसहस्त्रीतात्पर्यविवरणम् चोभयदोषप्रसङ्गादनुभयपक्षेऽपि विकल्पानुपपत्तेरित्यादि योज्यम् ।
तथा हि-वस्तुनो धर्मस्यानन्यत्वे वस्तुमात्रप्रसक्तेरन्यत्वे व्यपदेशासिद्धरसम्बन्धात्, उभये चोभयपक्षभाविदोषोऽनुभयपक्षे निरुपाख्यत्वमिति ॥४५।।
तथानभिधेयत्वं प्रसिध्यत् सर्वत्र सन्तानसन्तानिनोरपि तत्त्वान्यत्वाभ्यामवाच्यत्वं प्रसाधयति विशेषाभावात् ॥४५॥ इति येषामाकूतं तैरपि
अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् ॥४६॥
[सर्वथावक्तव्यं वस्तु अवक्तव्यमितिशब्देनापि न वक्तुं युज्यते ।] (भा० ) न हि सर्वथानभिलाप्यत्वेऽनभिलाप्यचतुष्कोटेरभिधेयत्वं युक्तं, कथञ्चिदभिलाप्यत्वप्रसङ्गात् ।
___ ततो भवद्भिरवक्तव्यचतुष्कोटिविकल्पोऽपि न कथनीयः, इति न परप्रत्यायनं नाम ।
(भा० ) अपि चैवं सति सर्वविकल्पातीतमवस्त्वेव स्यादन्यत्र वाचोयुक्तेः ।
जात्यन्तरमेव ह्यनेकान्तात्मकं सर्वथैकान्तविकल्पातीतत्वात् । सर्वविकल्पातीतमिति वाचोयुक्तावेव वस्तूक्तं स्यान्नान्यथा, तस्याविशेषणत्वात् खपुष्पवत् । न हि सर्वथाप्यसदनभिलाप्यमवस्त्विति वा विशेषणं स्वीकुरुते यतो विशेष्यं स्यात् । न
अष्टसहस्रीतात्पर्यविवरणम्
साकाङ्क्षत्वात् । सर्वान्तेषु सर्वभेदेषु । तत्त्वान्यत्वमिति समाहारापेक्षयैकवचनं तत्त्वमन्यत्वं चेत्यर्थः । तयो प्रकृतयोः ॥४५॥
एवमवाच्यत्वं सर्वथा सन्तानसन्तानिनोः प्रसक्तं, तत्कथञ्चिद्भावेन नियमयितुमाहअवक्तव्येत्यादि । न कथ्यतामिति कथ्यते चेत्कथञ्चिदवक्तव्यतैव पर्यवसन्ना, एवम्, असर्वान्तं सर्वभेदरहितम्, अवस्त्वेव स्यात् यतो न कस्यचिद्विशेष्यं न वा विशेषणं, वाचो युक्तावेव प्रतियोगिविशेषपरतया भङ्ग्यन्तरभाजि वचन एव । अनभिला