________________
द्वितीयो भाग: [ परि० ३ - का० ४५ ]
स्तदवस्थः ।
सकलसन्तानिनां साङ्कर्यस्यापरिहृतत्वात्, उपचरितेनैकसन्तानेन केषाञ्चिदेव स्वेष्टसन्तानिनां व्याप्तेर्नियमयितुमशक्तेः । यदि तु मुख्यार्थ एव सन्तानः स्यात्तदा न संवृतिः । संवृतिरेव सन्तानस्तथोपचारादिति चेत्, न, तस्य मुख्यप्रयोजनत्वविरोधात् । मुख्यप्रयोजनश्चायं, प्रत्यभिज्ञानादेर्मुख्यस्य कार्यस्य करणात् ।
४८९
( भा० ) उपचारस्तु नर्ते मुख्यात् यथाग्निर्माणवकः इति स्खलति तत्रानन्यप्रत्ययः, परीक्षाक्षमत्वात् । अत एवामुख्यार्थः प्रस्तुतासाधनम् ।
न ह्यग्निर्माणवक इत्युपचारात्पाकादावादीयते । तथा सन्तानोऽप्युपचरितः सन्तानिनियमहेतुर्न स्याद् इति तदवस्थं सन्तानिसाङ्कर्यं सन्तानस्यैकस्य सन्तानिभ्यो भिन्नस्याभिन्नस्योभयरूपस्यानुभयरूपस्य चासम्भवात् ॥४४॥ तत एव
चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्त्ययोगतः । तत्त्वान्यत्वमवाच्यं चेत्तयोः सन्तानतद्वतोः ॥४५ ॥
यो यो धर्मस्तत्र तत्र चतुष्कोटेर्विकल्पस्य वचनायोगः । यथा सत्त्वैकत्वादिधर्मेषु । धर्मश्च सन्तानतद्वतोस्तत्त्वमन्यत्वं च इति तत्रावाच्यत्वसिद्धिः । [प्रत्येकवस्तुनि चतुर्धा विकल्पो न शक्यते इति बौद्ध: स्वपक्षं समर्थयति] प्रसिद्धं हि
( भा०) सत्त्वैकत्वादिषु सर्वधर्मेषु सदसदुभयादिचतुष्कोटेरभिधातुमशक्तत्वात् सन्तानतद्वतोरपि भेदाभेदोभयानुभयचतुष्कोटेरनभिलाप्यत्वम् । सर्वो हि वस्तुधर्मः सन् वा स्यादसन् वा उभयो वानुभयो वा ।
( भा०) सत्त्वे तदुत्पत्तिविरोधादसत्त्वे पुनरुच्छेदपक्षोपक्षिप्तदोषादुभये अष्टसहस्त्रीतात्पर्यविवरणम्
कार्यकारणभावसम्बन्धाभाव:, स्खलति हि = बाधते हि तत्र पूर्वोत्तरक्षणेषु, अनन्यप्रत्यय: = एकत्वावसायः ॥४४||
तत एव=उक्तासम्भवादेव चतुः कोटेरित्यादिकारिकाप्यग्रिमकारिकया सम्बध्यते