________________
४८८
अष्टसहस्त्रीतात्पर्यविवरणम् अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् ? । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः ॥४४॥ (भा०) सन्तानिभ्योऽनन्यः सन्तानः, अन्यथात्मनो नामान्तरकरणात् ।
आत्मा सन्तान इति, सुखादिपरिणामेभ्यो भिन्नस्य वस्तुनो व्यापकस्यात्मत्वादर्थभेदाभावात् । तथा नामान्तरकरणे च
[सन्तानो नित्योऽनित्यो वेति विकल्प्योभयपक्षे दूषणमवतारयन्ति ।] (भा०) नित्यानित्यविकल्पानुपपतेः नान्यः सन्तानो वास्तवः स्यात् ।
नित्यविकल्पे तस्य सन्तानिव्यापकत्वाभावोऽनेकस्वभावेन तद्व्यापकत्वे तस्य नित्यैकरूपत्वविरोधात् । एकस्वभावेन तद्व्यापकत्वे सन्तानिनामेकरूपत्वापत्तेः कुतः सन्तानः ? अनेकव्यापिनः क्रमशः सन्तानत्वात् । तदनित्ये विकल्पेऽपि न सन्तानः, सन्तानिवद्भेदादेकप्रत्यवमर्शाविषयत्वात् । [भिन्नेष्वभिन्न इति व्यवहारः संवृतिः स एव सन्तानः इति कथने सति
जैनाचार्यास्तत्सन्तानलक्षणं निराकुर्वन्ति ।] (भा०) अपि तु संवृत्याऽन्येष्वनन्यव्यवहारात् । अनन्य इति शब्दविकल्पलक्षणत्वाद् । (भा०) एकत्वमुपचरितमिति ।
अन्येष्वनन्यशब्दोऽयं संवृतिः सौगतैरभिधीयते सन्तानः । सोऽपि कथं मृषा न स्यात् ? । अस्तु व्यलीकोऽयं व्यवहारस्तथेष्टत्वादिति चेत्, तर्हि, (भा०) व्यलीकव्यवहारेऽपि विशेषानुपपत्तेः सम्बन्धनियमाभाव
- अष्टसहस्रीतात्पर्यविवरणम्
चेच्छब्दस्य श्रुतेः, प्रस्तुतकारिकायां तु पराभिमतसन्तानवचनमृषात्वस्य मुख्यस्य द्रव्यार्थस्य चोद्देश्यत्वाद्विप्रतिपत्तिधर्म्यभिधानेन परमस्याः कारिकाया उत्तरकारिकाया सहैकवाक्यत्वादिति द्रष्टव्यम् । सोऽपि कथं मृषा न स्यादिति संवृतिशब्देनैव मृषात्वस्य स्फुटमभिधानादिति भावः । व्यवहार:=सन्तानव्यवहारः, सम्बन्धनियमाभावः= पूर्वोत्तरक्षणानां नियत