________________
द्वितीयो भाग: [ परि० ३ - का० ४३ ]
वास्यवासकभावकर्मफलसम्बन्धः प्रवृत्त्यादिर्वास्ति, सर्वथानन्वये सत्यन्यभावात् सन्तानान्तरवत् । तेषामेकसन्तानत्वात्सोऽस्तीति चेत्, न, एकसन्तानस्य तद्वत: पृथगसत्त्वात्, सन्तानिन एवापरामृष्टभेदाः सन्तान इति स्वयमभ्युपगमात् सर्वेषां वैलक्षण्याविशेषात् । सन्तानसङ्करप्रसङ्गश्चाविशेषेणापरामृष्टभेदत्वस्य सम्भवात् एते एवाभेदपरामर्शविषया न पुनरन्ये इति विशेषनिबन्धनस्याभावात् ।
[स्वभावतो पृथक्-पृथक् सन्ततयः कर्मतत्फलादिसम्बन्धे हेतुरिति मान्यतायां जैनाचार्याः संबोधयन्ति । ]
( भा० ) विलक्षणानामत्यन्तभेदेऽपि स्वभावतः किलासङ्कीर्णाः सन्ततयः कर्मफलसम्बन्धादिनिबन्धनं शशविषाणस्येव वर्तुलत्वमारचितं कश्चेतनः श्रद्दधीत ?,
प्रत्यक्षेणाप्रतीतेऽर्थे स्वभावस्याश्रयितुमशक्यत्वात् ।
प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्यं दृष्टे कानुपपन्नता ? ॥ [
४८७
]
अष्टसहस्त्रीतात्पर्यविवरणम्
इति स्वयमभिधानात् । न च परस्परं विलक्षणानामेव क्षणानामत्यन्तमन्वयासत्त्वेऽप्यन्तर्बहिर्वा सन्ततयोऽसङ्कीर्णा एव प्रत्यक्षतः प्रतीताः, तस्यैकक्षणगोचरतया सन्तानाविषयत्वात् । नाप्यनुमानतः, स्वभावस्य कार्यस्य वा तल्लिङ्गस्य प्रतिबद्धस्यानवधारणात् । प्रत्यभिज्ञानादि तदनुमाने लिङ्गमिति चेत्, न तस्य क्वचिदन्वयासिद्धेर्व्यतिरेकानिश्चयाच्च । तत एव नान्यथानुपपत्तिः, प्रत्यभिज्ञानादेः सन्तानाभावेऽसम्भवनियमनिश्चयायोगात्, तत्रैकद्रव्यप्रत्यासत्तेरेव ततः प्रसिद्धेविरुद्धत्वनिर्णयात् । ततो न सन्तानोऽस्ति स्वभावत एवासङ्कीर्णाः सन्तानान्तरैरिति सूक्तम् ॥४३॥
स्यान्मतम्
विशेषेण सह यत्रेत्यर्थान्निरपेक्षान्यतरपरिग्रहः ||४३||
कर्मफलसम्बन्धादिनिबन्धनमित्यनन्तरमिति वचनमिति शेषः । आरचितमितिउक्तमित्यर्थः । कः श्रद्दधीतेति एकद्रव्यातिरिक्तासु तासु प्रमाणाप्रसरादित्यर्थः ॥४३॥
स्यान्मतमिति अशङ्कावचनं, वक्ष्यमाणकारिकापेक्षया तत्रैव तदभिव्यञ्जकस्य