________________
४८६
अष्टसहस्त्रीतात्पर्यविवरणम तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतेरलमपलापेन ।
न हि तन्तुतद्विशेषयोरन्यतरस्य विधौ निषेधे च नियमनिमित्तमस्ति । न हि तन्तव एवातानादिविशेषनिरपेक्षाः पटस्वभावं प्रतिलभमानाः समुपलभ्यन्ते, येन तन्तुमात्रस्यैव विधिनियमो विशेषप्रतिषेधनियमो वा स्यात् नापि तन्तुनिरपेक्षो विशेष एव पटस्वभावं स्वीकुर्वन्नुपलभ्यते यतो विशेषविधिनियमस्तन्तुप्रतिषेधनियमो वावतिष्ठेत । न चोपलब्ध्यनुपब्धी मुक्त्वान्यन्निमित्तं तद्विधिप्रतिषेधयोनियमोऽस्ति येन तदत्ययेऽपि तदुभयप्रतीतेरपलापः शोभेत । ननु च नास्ति तन्त्वाद्यन्वय उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति स्वभावानुपलब्धिस्तत्प्रतिषेधनियमनिमित्तं, विशेषमात्रस्यैवोपलब्धेस्तद्विधिनियमहेतुत्वादिति चेत्, न, तन्त्वाद्यन्वयवत्तद्विशेषस्यापि निरपेक्षस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेरविशेषात् प्रतिषेधनियमप्रसङ्गात् ।
(भा०) तस्मादुपलब्धिलक्षणप्राप्तानुपलब्धिरनन्वयस्यैव न पुनरुभयरूपस्य । इत्यलं प्रसङ्गेन ।
सर्वथान्वयविशेषयोरेव प्रतिषेधनियमस्य निमित्ताभावात् तदुभयरूपजात्यन्तरस्यैव विधिनियमस्य निमित्तसद्भावात् तन्निमित्तस्यार्थक्रियाकारित्वस्य सकलप्रमाणोपलम्भस्य च प्रसिद्धेविरोधाद्यसम्भवाच्च ॥४२।। तदेवं क्षणिकैकान्तपक्षे
न हेतुफलभावादिरन्यभावादनन्वयात् ।
सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥४३॥ क्षणिकैकान्तपक्षेऽपीति विवर्तते । तेन पूर्वोत्तररक्षणानां न हेतुफलभावो
अष्टसहस्त्रीतात्पर्यविवरणम् दर्शनमित्यादिना शोभेतेत्यन्तेन, एतेन शक्तेनियामकत्वमपि व्याख्यातं, द्रव्यार्थतया सत्त्वस्यैव तदर्थत्वात् । विशेषैकान्तवादी सामान्यानुपलब्धिमादाय शङ्कते-ननु चेत्यादिना । सिद्धान्तवादी विशेषानुपलब्धिमादायोत्तरयति नेत्यादि, हृदे वह्निर्ने त्यत्रैव तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वेन योग्यानुपलब्ध्या निरपेक्षान्यतराभावसिद्धरुभयैकरूपतामुपसंहरति-तस्मादित्यादिना भाष्यकृत्, अनन्वयस्यैवेति न विद्यतेऽन्वयः सामान्यस्य