________________
४८५
द्वितीयो भागः [ परि०३-का० ४२]
(भा०) निरन्वयस्यापि तादृशो प्रकृतिरात्मानं कारणान्तरेभ्यो यथा विशेषयतीति चेत्, न, अत्यन्तविशेषानुपलब्धेः । तदविशेषादर्शने सर्वथान्ध्यं स्यात्,
विशेषाविशेषयोरदृष्टौ तद्रहितवस्तुरूपोपलम्भाभावात् ।
(भा०) तस्मादियमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थिति प्रतिक्षणं बिभर्ति यतोऽयमुपादाननियमः सिद्धः ।
पूर्वोत्तरस्वभावहानोपादानमात्रे तदसिद्धेः स्थितिमात्रवत् ।
(भा०) अथापि कथञ्चिदुपादाननियमः कल्प्येत, कार्यजन्मनि कथमाश्वासः ? ।
संवृतिमात्रेणोपकल्पितादुपादाननियमात्कार्योत्पत्तावनाश्वासदर्शनात्, स्वप्नवत् ।
(भा०) तदत्यन्तासतः कार्यस्योत्पत्तेस्तन्तुभ्यः पटादिरेव न पुनः कुटादिरिति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्पनायामनुपादानेऽपि स्यात् ।
___ तन्नियमकल्पना । तथादर्शनमहेतुरत्रैव विचारात् । न हि यत्रैव विवादस्तदेव नियमहेतुरिति युक्तं वक्तुमविचारकत्वप्रसङ्गात् । [तन्तुसामान्यमातानवितानादिरूपेण तन्तुविशेषश्च परस्पनिरपेक्षौ उभौ पटकार्यं कर्तुं न शक्नुतः ।]
यथादर्शनं नियमकल्पनायां हेतावपि (भा०) कथञ्चिदाहितविशेषतन्तूनां पटस्वभावप्रतिलम्भोपलम्भात्
- अष्टसहस्रीतात्पर्यविवरणम् - पन्नैकसन्तानवत् । यतः=उक्तहेतोस्त्रैलक्षण्यात्, अयं प्रत्यक्षसिद्धः । अविचारकत्वप्रसङ्गादिति यदेव पृष्टं तस्यैवोत्तरत्वप्रदानादित्यर्थः । ननु तन्तुभ्यः पटादिरिवेत्यादिनियमः कुतो दृश्यत ? इति न पृष्टं, येन तत्र तथा दर्शनस्य हेतुत्वोक्तावविचारकत्वम्, किन्तु तन्नियमहेतप्रश्न एव सः, तत्र चान्वयव्यतिरेकशालित्वमेव, तद्धेतरित्युत्तरं, तत्सिद्धिश्च तथा दर्शनादिति न प्रश्नोत्तरवैयधिकरण्यमित्याशक्य तदपि सामान्यविशेषरूपत्वे तन्त्वादेरित्यूर्ध्वतासामान्येनान्वयात् नाऽत्यन्तासत्त्वं कार्यस्येत्यागतमित्याशयेन आह-यथा