________________
५०२
अष्टसहस्त्रीतात्पर्यविवरणम् नापि स्वाश्रयेण सह कार्यकारणभावः, समनन्तरस्वलक्षणक्षणाभ्यां नाशोत्पादयोरर्थान्तरत्वप्रसङ्गात् । तयोस्तद्धर्मत्वाद्विशेषणविशेष्यभावसम्बन्ध इति चेत्, न, वैशेषिकमतसिद्धेः । कल्पनारोपितत्वात्तयोर्न तत्सिद्धिरिति चेत्, तर्हि पूर्वक्षणविनाशोऽनन्तरक्षणस्वभावस्तदुत्पादश्चेति सिद्धः स्वभावप्रतिबन्धः । न चैवं प्रतिपत्त्यभिधानभेदो विरुद्ध्यते संविदि ग्राह्यग्राहकाकारयोरपि तद्विरोधप्रसङ्गात् । ततस्तद्वत्तयोरभेद एव ।
(भा०) सञ्ज्ञाच्छन्दमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा स्यात्, कार्यरूपादेरिव कारणम् ।
सञ्ज्ञा हि प्रत्यभिज्ञा, छन्द इच्छा । तेनादिशब्दस्योभयत्र सम्बन्धान्निदर्शनद्वयं वादिद्वयापेक्षयोच्यते । सञ्ज्ञाछन्दादिवन्मतिस्मृत्यादिवच्च क्रमभाविनो शोत्पादयोः सत्यपि भेदे समकालभाविनोस्तयोर्घटकपालाश्रययोरिव सहकारी मुद्गरादिः कथं कपालोत्पादस्यैव हेतुर्न पुनर्घटविनाशस्य, तस्यैव वासौ हेतुर्न तु कपालोत्पादस्य स्यात् ? कार्यरूपादिस्तबकस्यैकसामग्र्यधीनस्य कारणरूपादिस्तबकवत् । यतश्चैवं,
(भा० ) तस्मात्कार्यकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् ।
न हि कारणरसादिकलापः कार्यस्य रसस्यैव हेतुर्न पुना रूपादेरिति प्रतीतिरस्ति, यतः साध्यशून्यो दृष्टान्तः स्यात् । नाप्यसहभावो रसादीनां, येन साधनविकलः । पुरुषधिषणाभ्यामनेकान्त इति चेत्, न सौगतानां पुरुषासिद्धेः ।
– अष्टसहस्रीतात्पर्यविवरणम् - विनाश इति प्रतिपत्तिभेदः, एतदाकार एव चाभिधानभेदः, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनादिति स्मर्त्तव्यम् । स त्यादि भाष्ये वतिरिवार्थः, तेनायमर्थः सञ्जाछन्दाद्योर्मतिस्मृत्याद्योरिव क्रमभाविनोरुदासीननाशोत्पादयोः सत्यपि भेदे प्रकृतयोः समकालभाविनोर्घटकपालनाशोत्पादयोः रूपरसादिवत्कथञ्चिदभेदात्कथमुपादानसहकारी मुद्गरादिरन्यतरस्य कपालजातस्य हेतुरेवान्यतरस्य घटनाशस्याहेतुरेव च स्यात् ? कारणरूपादिस्तोमाधीनकार्यरूपादिस्तोमवदेकसामग्रयधीनत्वात्तयोः । न च रूपादौ रूपादेरेव हेतुत्वं रसादेस्तु सहभाविनोऽप्यन्यथासिद्धत्वादेवाहेतुत्वं तद्वदत्रापि कपालोत्पाद एव मुद्गरादेर्हेतुत्वं न तु घटनाशेऽन्यथासिद्धत्वादित्यपि वक्तुं शक्यम्, रसादौ नियतोपस्थिति