________________
द्वितीयो भागः [ परि०३-का० ५३]
५०३ स्याद्वादिनां तु तस्यापि सहेतुकत्वात् पर्यायार्थतो धिषणावत्, द्रव्यार्थतोऽहेतुकत्वाच्च धिषणायाः पुरुषवन्न ताभ्यां हेतोर्व्यभिचारिता कारणानन्तरं सहभावात् इति प्रकरणसामर्थ्यात्सविशेषणस्य सहभावस्य हेतुत्वाद्वा न व्यभिचार: स्यात् । न चैवमसिद्धं साधनं, मुद्गरादिव्यापारानन्तरं कार्योत्पादवत् कारणविनाशस्यापि प्रतीतेः, विनष्टो घट उत्पन्नानि कपालानीति व्यवहारद्वयसद्भावात् । ततः कार्योत्पादवत्कारणविनाशः सहेतुक एवाभ्युपेयः । ननु हेतोर्न
(भा०) तस्य किञ्चिद्भवति, न भवत्येव केवलमिति चेत् तर्हि कारणात्कार्यस्य न किञ्चिद्भवति । (भा०) भवत्येव केवलमिति समानं, विनाशवदुत्पादस्यापि निर्हेतुकत्वापत्तेः ।
(भा० ) तस्मादयं विनाशहेतुर्भावमभावीकरोतीति न पुनरकिञ्चित्करः । कार्योत्पत्तिरहेतुर्वा यद्यभावं न भावीकुर्याद् भावं करोतीति कृतस्य करणायोगादकिञ्चित्करः
स्यात्, सर्वथा भावं भावीकुर्वतो व्यापारवैफल्यात् । (भा०) तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी ।
[विनाशोत्पादौ घटाद् भिन्नौ अभिन्नौ वेति विचार्यते] यथैव हि विनाशहेतोः कुटस्य तदभिन्नविनाशकरणे तत्करणादकिञ्चित्करत्वं, तद्भिन्नविनाशकरणे च तदुपलम्भप्रसक्तिः । तथोत्पादहेतो वादभिन्नोत्पादकरणेऽप्यकिञ्चित्करता, सतः करणायोगात् । सर्वथाप्यसतो भावादभिन्नस्योत्पादस्य करणेऽपि न किञ्चित् कृतं स्यात् खपुष्पसौरभवत् । सतोऽसतो वार्थान्तरस्य जन्मनः करणे तु न सदसद्वा कृतं स्यात् । एतेन प्रागसतोऽनर्थान्तरस्यार्थान्तरस्य चोत्पादस्य
अष्टसहस्रीतात्पर्यविवरणम्
करूपादिनाऽन्यथासिद्धिसम्भवेऽप्यत्राविनिगमेन तदसम्भवात् । कारणानन्तरं सहभावादितीति इतिः प्रयोगाकारोपदर्शनार्थः अनेन प्रयोगेणेत्यर्थः । सविशेषणस्य कारणानन्तर्यविशेषणविशिष्टस्य, हेतुत्वात् =हेतुत्वेनोपन्यासात्, कार्योत्पत्तिहेतुर्वेति यथा