________________
५०४
अष्टसहस्त्रीतात्पर्यविवरणम्
हेतुना करणे तस्याकिञ्चित्करत्वमुपदर्शितं प्रतिपत्तव्यं, प्रागसतोऽनन्यस्य सत्त्वायोगात्, ततोऽन्यस्य सत एव करणे वैफल्यात् । ततो यदि न विनाशार्थो हेतुसमागमस्तदोत्पादार्थोऽपि मा भूत्, सर्वथा विशेषाभावात् ॥५३॥
किञ्च क्षणिकैकान्तवादिनां परमाणवः क्षणा उत्पद्यन्ते स्कन्धसन्ततयो वा ? प्रथमपक्षे स्थाप्यस्थापकविनाश्यविनाशकभाववद्धेतुफलभावविरोधात्कुतः सहेतुको - त्पत्तिरहेतुका वा ? स्थितिविनाशवत् । द्वितीयपक्षे तु
स्कन्धसन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥५४॥
साध्याभावासम्भूष्णुताविरहाद्धेतोरन्यथानुपपत्तिरनिश्चितेति न मन्तव्यं, साध्याभावे तदभावप्रसिद्धेः सौगतस्य । तथा हि
[बौद्धाभिमतपञ्चस्कन्धाः अवास्तविका एव ।]
(भा०) रूपवेदनाविज्ञानसञ्ज्ञासंस्कारस्कन्धसन्ततयोऽसंस्कृताः संवृतित्वात्, यत्पुनः संस्कृतं तत्परमार्थसत्, यथा स्वलक्षणं, न तथा स्कन्ध
सन्ततयः
इति साध्यव्यावृत्तौ हेतोर्व्यावृत्तिनिश्चयात् । खरविषाणादौ सांवृतत्वस्यासंस्कृतत्वेन व्याप्तस्य प्रतिपत्तेः सिद्धान्यथानुपपत्तिः ।
[अवास्तविकस्कन्धेषु उत्पादादित्रयं न घटते ]
(भा०) ततः स्थित्युत्पत्तिविपत्तिरहिताः
प्रतिपाद्यन्ते । तथा हि-स्कन्धसन्ततयः स्थित्युत्पत्तिविपत्तिरहिता एवासंस्कृतत्वात् खरविषाणवत् । क्षणं स्थित्युत्पत्तिविपत्तिसहितस्य स्वलक्षणस्य संस्कृतत्वोपगमादन्यथानुपपत्तिसिद्धिः साधनस्य प्रत्येया । स्याद्वादिनामपि
अष्टसहस्त्रीतात्पर्यविवरणम्
कार्योत्पत्तिहेतुरभावं भावीकरोति न पुनरकिञ्चित्करस्तथा विनाशहेतुर्भावमभावीकरोति न पुनरकिञ्चित्कर इत्यर्थः । इदं तु ध्येयम् भेदाभेदनियतश्चिप्रत्ययार्थः स्याद्वाद एव युज्यते