________________
द्वितीयो भागः [ परि० ३-का० ५५]
५०५ स्थित्युत्पत्तिविपत्तिमतः कथञ्चित् संस्कृतत्वसिद्धेर्न व्यभिचारः । सर्वथा स्थितिमतोऽसंस्कृतस्य च कस्यचिद्वस्तुनोऽनुपपत्तेश्च निरवद्योऽयं हेतुः ।
(भा०) ततो विसभागसन्तानोत्पत्तये विनाशहेतुरिति पोप्लूयते ।
रूपादिस्कन्धसन्ततेरुत्पत्तिनिषेधात् तद्विनाशस्यापि खरविषाणवदसम्भवात् । तथा हि-स्कन्धसन्ततयो विनाशरहिताः स्थित्युत्पत्तिरहितत्वात् । यत् पुनर्विनाशसहितं तन्न स्थित्युत्पत्तिरहितं, यथा स्वलक्षणम् । न तथा स्कन्धसन्ततयः । इति स्थित्युत्पत्तिव्यया न स्युस्तेषां स्कन्धानां खरविषाणवत् । तदभावे विरूपकार्यारम्भाय हेतुसमागम इति कथं न सुतरां प्लवते ? ततो न क्षणिकैकान्तः श्रेयान्नित्यैकान्तवत्सर्वथा विचारासहत्वात् ॥५४॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥५५॥ (भा०) नित्यत्वेतरैकान्तद्वयमप्ययुक्तमङ्गीकर्तुं, विरोधाद्युगपज्जीवितमरणवत् । तादात्म्ये हि नित्यत्वानित्यत्वयोनित्यत्वमेव स्यादनित्यत्वमेव वा । तथा च
- अष्टसहस्त्रीतात्पर्यविवरणम्
नान्यथेति ॥५३॥
स्थाप्यस्थापकेत्यादि यथा परमाणूनां स्थाप्यस्थापकभावादिविरुध्यते तथा हेतुफलभावोऽप्यनन्वयेन कल्पनामात्रे विश्रामात्, तच्चेदं पूर्वक्षणः स्थापक उत्तरक्षणः स्थाप्य उत्तरक्षणो विनाशक: पूर्वक्षणो विनाश्य इति । असंस्कृता उत्पत्तिरहिताः । रूपेत्यादि रूपरसगन्धस्पर्शपरमाणवः सजातीयव्यावृत्ताः परस्परासम्बद्धा रूपस्कन्धाः, सुखदुःखादयो वेदनास्कन्धाः, सविकल्पनिर्विकल्पज्ञानादयो विज्ञानस्कन्धाः, वृक्षादिनामानि सज्ञास्कन्धाः, ज्ञानपुण्यपापवासनाः संस्कारस्कन्धाः । स्कन्धसन्ततय इत्यादि न चेदमनुमान कारिकाऽसूचितत्वेनाधिकम्, परार्द्धनास्य प्रसङ्गानुमानतया व्यक्तमुक्तत्वादित्यवधेयम् ॥५४||
विरोधान्नोभयैकात्म्यमित्यादि प्रागुक्तदिशा व्यक्तार्थम् ॥५५॥