________________
५०६
अष्टसहस्त्रीतात्पर्यविवरणम्
नोभयैकात्म्यं, विप्रतिषेधात् ।
(भा०) नित्यत्वानित्यत्वाभ्यामत एवानभिलाप्यमित्ययुक्तं, तदेकान्तेऽनभिलाप्योक्तेरनुपपत्तेः ।
सर्वथानभिलाप्यं तत्त्वमित्यभिलपत एव वचनविरोधात् सदा मौनव्रतिकोऽहमित्यादिवत् ॥५५॥
तदेवं नित्यत्वाद्येकान्तानुपपत्तौ सामर्थ्यात्तदनेकान्तसिद्धिप्रतिपादनेऽपि तत्त्वोपप्लववादिदुराशयविनाशनाय तत्प्रतिपत्तिदाढाय च स्याद्वादिवादन्यायानुसरणेन नित्यत्वाद्यनेकान्तमुपदर्शयन्ति सूरयः -
नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥५६॥
ते भगवतोऽर्हतः स्याद्वादन्यायनायकस्य सर्वं जीवादितत्त्वं स्यान्नित्यमेव प्रत्यभिज्ञायमानत्वात् । नाकस्मात्तत्प्रत्यभिज्ञानं तस्याविच्छेदेनानुभवात् । निर्विषयं हि प्रत्यभिज्ञानमकस्मादिति प्रसिद्धम् । यथा तादृशे तदेवेतदिति, तत्रैव वा तादृशमिदमिति भ्रान्तं प्रत्यभिज्ञानम् । न चैवं जीवादितत्त्वे प्रत्यभिज्ञानं, बाधकभावात्तदविच्छेदात् । प्रत्यक्षं बाधकमिति चेत्, न तस्य वर्तमानपर्यायात्मक
अष्टसहस्त्रीतात्पर्यविवरणम् नित्यमित्यादि ते=तव मते, तज्जीवाजीवाद्यधिकृतं वस्तु, नित्यं स्यान्नित्यमेव, कस्मात् ? प्रत्यभिज्ञानात् तदेवेदमिति प्रत्यभिज्ञायमानत्वात् । न च ध्वंसाप्रतियोगित्वे साध्ये घटादौ व्यभिचारोऽक्षणिकत्वे साध्ये चोद्देश्यासिद्धिरिति वाच्यम्, तदेतत्कालवृत्तिध्वंसाप्रतियोगित्वस्य साध्यत्वे दोषाभावात्, स्यान्नित्यत्वस्य तद्धर्मावच्छिन्नस्यात्रैव पर्यवसानादिति बोध्यम् ।
तत्=प्रत्यभिज्ञानम्, अकस्मान्निविषयं न, कुतः ? तदविच्छिदा विच्छेदनं विच्छित्, न विच्छिदविच्छित् तया, अभेदरूपाविच्छेदानुभवादित्यर्थः । विपर्यये इत्यध्याहार्यम् । विपर्यये स्यान्नित्यत्वाऽभावे, बुद्ध्यसञ्चरदोषतो अनुभवपरिणतस्यात्मनः स्मृतिपरिणामरूपैकत्वगमनानापत्तेः, क्षणिकस्य क्रमिकोभयपरिणामानाधारत्वादिति भावः ।