________________
द्वितीयो भागः [ परि०३-का. ५६]
५०७ वस्तुविषयत्वात्, पूर्वापरपर्यायव्याप्येकत्वलक्षणे प्रत्यभिज्ञानविषये प्रवृत्त्यभावात् । न च स्वस्याविषये किञ्चिद् बाधकं साधकं वा श्रोत्रज्ञानविषये चक्षुर्ज्ञानवत् । तत एव नानुमानं, तस्यान्यापोहमात्रगोचरत्वात्तत्रैव साधकबाधकत्वोपपत्तेः । प्रमाणान्तरं तु नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिर्यत्प्रत्यभिज्ञानस्य बाधकं स्यात् इति सत्यप्रत्यभिज्ञानमेव वितथप्रत्यभिज्ञानस्य बाधकम् ।
[बौद्ध एकत्वप्रत्यभिज्ञानं न मन्यते किन्तु जैनाचार्याः तत् साधयन्ति ।]
सादृश्यप्रत्यभिज्ञानं सम्यगेवास्य जीवादावेकत्वप्रत्यभिज्ञानस्यानाद्यविद्योदयापादितस्य भ्रान्तस्य बाधकमिति चेत्, न अस्य भ्रान्तत्वासिद्धेः, सदृशापरापरोत्पत्त्यनिश्चात् । ननु च यत्सत्तत्सर्वं क्षणिकमक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेरित्यनुमानान्निरन्वयविनाशित्वसिद्धर्जीवादिक्षणानामेकत्वासम्भवात् । सादृश्यप्रत्यभिज्ञानविषयत्वोपपत्ते भ्रन्तिमेव तत्रैकत्वप्रत्यभिज्ञानं सिद्धमविसंवादाभावादिति चेत्, न, अस्यानुमानस्य विरुद्धत्वात् । तथा हि यत्सत् तत्सर्वं कथञ्चिन्नित्यं, सर्वथा क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेरिति । अत्र न तावद्धतोरनैकान्तिकत्वं, सर्वथा नित्यत्वे सत्त्वस्याभावात् सर्वथा क्षणिकत्ववत् । तदभावश्च क्रमाक्रमानुपपत्तेः । तदनुपपत्तिश्च पूर्वापरस्वभावत्यागोपादानान्वितरूपाभावात् सकृदनेकशक्त्यात्मकत्वाभावाच्च । न हि
अष्टसहस्रीतात्पर्यविवरणम्
एवं तत्तेदन्तापरिणतबुद्धिविषयैक्यानुपपत्तेविपर्यये विषयतोऽपि बुद्ध्यसञ्चरदोषापत्ति
र्व्याख्येया । तथा ते तव मते, जीवाजीवादिवस्तु कथञ्चित् क्षणिकं प्रत्यभिज्ञायमानत्वात्, न च प्रत्यभिज्ञानमाकस्मिकं, तत्तेदन्तापरिणामद्वयोपरागेणाविच्छेदानुभवात्, सर्वथैक्यस्य विषयत्वे स स इत्यापत्तेः, स्थूलकालभिन्नाभेदभाने च क्षणभिन्नधर्माभेदभानस्याप्यर्थतः सिद्धत्वात्, भिन्नकालयोर्धर्मयोरेकत्र धर्मिणि तादात्म्येन भाने तयोमिथोऽपि स्वावच्छेदककालान्यकालवृत्तित्वसम्बन्धेनान्वयादिति भावः । न चात्राप्रयोजकत्वं, कथञ्चित्क्षणिकत्वाभावे दर्शनस्मरणबुद्ध्योः पूर्वोत्तरपर्यायाप्रवृत्त्याऽसञ्चरणदोषापत्तेः । क्षणिकधर्माभिन्नत्वाच्च धर्मिणोऽपि क्षणिकत्वं कथञ्चिदविरुद्धमेव । वस्तुतः क्षणसम्बन्धस्य क्षणे वस्तुनि च लाघवादेकस्यैव कल्पनात् सिद्धमनायासेन सर्वत्र क्षणिकत्वमिति पत्रावलम्बने प्रदर्शयिष्यामः । प्रमाणान्तरं नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिरिति अनुमानभिन्न