________________
॥ दशमः परिच्छेद ॥ अज्ञानाच्चेद् ध्रुवो बन्धो ज्ञेयानन्त्यान्न केवली । ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद् बहुतोऽन्यथा ॥१६॥
श्रीमदकलङ्कविवृतां समन्तभद्रोक्तिमत्र सक्षेपात् ।
परमागमार्थविषयामष्टसहस्त्री प्रकाशयति ॥ [ज्ञानस्याभावरूपादज्ञानाद् बन्धो ज्ञानाद् मोक्ष इति पक्षं निराकरोति जैनाचार्यः ।]
प्रसज्यप्रतिषेधे ज्ञानस्याभावोऽज्ञानं, पर्युदासे ततोऽन्यन्मिथ्याज्ञानमज्ञानम् । तत्र यदि ज्ञानाभावाद् ध्रुवोऽवश्यम्भावी बन्धः स्यात्तदा केवली न कश्चित्स्यात् ।
[साङ्ख्यस्यैकान्तपक्षस्य निराकरणम् ] सकलविपर्ययरहितं तत्त्वज्ञानमसहायं केवलम, एवं तत्त्वाभ्यासान्नास्मि न मे, नाहमित्यपरिशेषम् । अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥१॥ [ ] इति वचनात्
तद्योगात्केवलीत्युच्यते । स कथं न स्यादिति चेत्, तदुत्पत्तेः पूर्वमशेषज्ञानाभावात्, करणजविज्ञानस्यातीन्द्रियार्थाविषयत्वादनुमानस्य चात्यन्तं परोक्षार्थगोचरत्वादागमस्यापि सामान्यतोऽविशेषार्थविषयत्वादयोगिनामशेषविशेषविषयज्ञानविरोधात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
इन्द्रः सन्देहजातं द्विजहृदयगतं बाल्यकालेऽप्यपृच्छद्धत्वोच्चैरासने यं शुचिनयविधिना यश्च तं द्रागभाङ्क्षीत् । ऐन्द्रं यस्माच्च जातं तदवयवपदैनिश्चितं शब्दशास्त्रं, शब्दब्रह्मैकसिन्धुः स जयतु चरमस्तीर्थकृद्विश्वबन्धुः ॥१॥ [स्रग्धरा]