________________
६२६
अष्टसहस्त्रीतात्पर्यविवरणम् न चाक्षलिङ्गशब्दज्ञानपरिच्छेद्य एवार्थस्ततोऽपरो नास्तीति शक्यं वक्तुं, ज्ञेयस्यानन्त्यात्, प्रकृतिविवर्तविशेषाणां पुरुषाणां चानन्ततोपगमात् ।
__ स्यान्मतं,-'प्रकृतिपुरुषविवेकज्ञानादेवागमबलभाविनः स्तोकादपि तत्त्वाभ्यासस्वात्मभावात् केवलज्ञानभृद्भवेत् । स एव च तस्य विमोक्षः पुनः संसाराभावादनागतबन्धनिरोधात्' इति तदप्ययुक्तं, स्तोकज्ञानापेक्षया बहोरज्ञानाद् बन्धस्य प्रसङ्गादेष्यद्बन्धनिरोधासम्भवाद् विमोक्षानुपपत्तेः । अथ तत्त्वज्ञानेन स्तोकेनापि बहोरज्ञानस्य प्रतिहतशक्तिकत्वान्न तन्निबन्धनो बन्धः सम्भवतीति मतं तदप्यसत्, प्रतिज्ञातविरोधात् । यत् खलु प्रतिज्ञातमज्ञानाद् ध्रुवो बन्ध इति तद्विरुध्यते । अथाखिलज्ञानाभावादज्ञानादवश्यम्भावी बन्धो न ज्ञानस्तोकमिश्रणादिति मतं तदप्यसम्यक्, सर्वदा बन्धाभावप्रसङ्गात् सर्वस्य प्राणिनः किञ्चिज्ञानसम्भवान्मुक्तौ बन्धप्रसक्तेश्च, तत्र सकलज्ञानाभावस्य बन्धहेतोः सम्भवात्, असंप्रज्ञातयोगावस्थायां च तदा द्रष्टुः स्वरूपेऽवस्थानम् इति वचनात् [यो० सू० १-३] । स्वरूपं च पुंसश्चैतन्यमानं सकलज्ञानरहितम् । इति मोक्षहेतुरेव बन्धहेतुः स्यात् । यदि पुनस्तत्त्वज्ञानस्य प्रागभावाद् बन्धो न प्रध्वंसाभावादिति मतं तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद्विपर्ययज्ञानाकारणादन्तरङ्गाद् बहिरङ्गाद्वा विपर्ययज्ञानोत्पत्तौ तत्त्वज्ञानप्रध्वंसाद् बन्धः कथं युज्येत ? स्यान्मतं,-'सकलतत्त्वज्ञानोत्पत्तौ नि:शेषमिथ्याज्ञाननिवृत्तेरसंप्रज्ञातयोगोत्पत्तौ तु तत्त्वज्ञानस्यापि नाशादशेषज्ञानाभावख्यादज्ञानान्मोक्ष एव, ततोऽन्यस्मात् सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद् बन्ध एवेति तदप्यसाधीयः, केवल्यभावप्रसङ्गस्याभिधानात् । स्तोकतत्त्वज्ञानाप्रतिबद्धात्तथाविधादज्ञानाद् बन्ध इत्यपि विरुद्धं, प्रवर्तकधर्महेतोः स्तोकतत्त्वज्ञानात्प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावलक्षणादज्ञानान्नावश्यम्भावी बन्ध इति पक्षः क्षेमङ्करः स्तोकतत्त्वज्ञानान्मोक्ष इति पक्षवत् ।
[मिथ्याज्ञानलक्षणादज्ञानाद् बन्धो भवतीति पक्षं निराकरोति जैनाचार्यः ।] अथ मिथ्याज्ञानालक्षणादज्ञानाद् ध्रुवो बन्धः स्यात्
- अष्टसहस्त्रीतात्पर्यविवरणम् क्रियाः प्रिया यत्स्मरणेन सर्वाः, शास्त्राणि यत्साधनतत्पराणि । चिदात्मना व्यापकतां श्रितो यो, ध्यायामि सिद्धं तमनादिशुद्धम् ॥२॥ [उपजाति]