________________
द्वितीयो भाग: [ परि० १० - का० ९६ ]
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ [
६२७
]
इति वचनात् । विपर्ययो मिथ्याज्ञानं सहजमाहार्यं चानेकविधमित्यभिमतं तदप्यसत्यं, केवल्यभावप्रसक्तेः, समयान्तरश्रवणजनितानेकविधाहार्यविपर्ययस्य साङ्ख्यागमभावनाबलोद्भूततत्त्वज्ञानाद्विनाशेऽपि सहजस्य विपर्ययस्यानिवृत्तेः । केवलज्ञानात् प्राग् बन्धयस्यावश्यंभावात्तन्निबन्धनमिथ्याज्ञानान्तरोद्भूतेः केवलोद्भूतिविरोधात् । न चागमबलात्सकलतत्त्वज्ञानाविर्भूतिरुपपद्यते, ज्ञेयस्य विशेषतो - ऽनन्तत्वादागमाविषयत्वादनुमानाद्यविषयत्ववत्, यतः कृत्स्नमिथ्याज्ञाननिवृत्तेः केवलाविर्भावः सम्भाव्यते । स्तोकतत्त्वज्ञानान्मोक्ष इत्यप्यनेन निराकृतं, बहुतो मिथ्याज्ञानाद् बन्धस्य प्रसक्तेः । स्तोकतत्त्वज्ञानप्रतिहताद् बहुतो मिथ्याज्ञानान्न बन्ध इति चेत्, कथमेवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यात् ? कथं वा स्तोकतत्त्वज्ञानात् प्रवर्तकधर्मनिबन्धनात्पुण्यबन्ध: ? इति दुखबोधम् । एतेनान्त्यमिथ्याज्ञानान्न बन्ध इत्येतदप्यपास्तं, प्रतिज्ञातविरोधाविशेषात् । रागादिदोषसहितान्मिथ्याज्ञानाद् बन्धो निर्दोषान्न बन्ध इत्यपि प्रतिज्ञातविरोधि कापिलानां, वैराग्यसहितात् तत्त्वज्ञानान्मोक्षवचनवत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
दशमे किञ्चिद् व्याख्यायते - प्रतिज्ञातविरोधाविशेषादिति अन्त्यमिथ्याज्ञानान्न बन्ध इत्युक्तौ मिथ्याज्ञानमात्रात् बन्ध इति मूलप्रतिज्ञासंन्यासादेवेत्यर्थः । वस्तुतोऽन्त्यव्यतिरिक्तं मिथ्याज्ञानं बन्धहेतुरन्त्यतत्त्वज्ञानं च मोक्षहेतुरित्ययुक्तं, तत्र बन्धमोक्षजनकतावच्छेदकव्यवस्थितजात्योर्मानाभावात्, मिथ्याज्ञानवासनाद्वारानुत्पत्तितद्ध्वंसद्वारोत्पत्तिभ्यामुपान्त्यादिव्यावृत्तत्वतदनुवृत्तत्वयोर्विनिगमनाविरहात्, मिथ्याज्ञानवासनाया एव बन्धहेतुत्वोपगमे च मतान्तरप्रवेशप्रसङ्गात्, तस्या अपि स्मृत्येकनाशत्वौचित्ये तत्त्वज्ञानात् पूर्वं मिथ्यास्मृतिकल्पने स्मरणस्य स्मरणजनकत्वपक्षेऽपि तत्त्वज्ञानोच्छेदाच्च । किञ्च आगमजन्यतत्त्वज्ञानापेक्षयाऽनादिवासनादोषजन्यमिथ्याज्ञानस्य बलवत्त्वात् तत्सत्त्वे कथं तत्त्वज्ञानम् ? । (शङ्का) दोषजन्यमिथ्याज्ञानापेक्षया दोषाभावसहकृतागमजन्यतत्त्वज्ञानस्यैव बलवत्त्वमिति चेत्, तर्हि सम्यग्दर्शनरूपतत्त्वज्ञानस्य मिथ्याज्ञानविरोधित्वमेव, बन्धहेतुत्वं तु कषायोदयसहकृताज्ञानमात्रस्यैवेति समर्थयिष्यमाणं प्रवचनवचनमेव विजयते । एतेन