________________
६२८
अष्टसहस्त्रीतात्पर्यविवरणम्
[नैयायिकास्तत्त्वज्ञानान्मोक्षं मन्यन्ते तन्निराकरणं कुर्वन्ति जैनाचार्याः ।]
एतेनैतदपि प्रत्याख्यातं, यदुक्तं-परेण दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावान्निःश्रेयसः इति [न्या० सू० १.१.२] मिथ्याज्ञानादवश्यं दोषोद्भूतौ दोषाच्च प्रवृत्तेधर्माधर्मसञिकायाः प्रादुर्भावे, ततोऽपि जन्मनः प्रसूतौ, ततोऽपि दुःखस्यैकविंशतिप्रकारस्य प्रसवे, केवलिनः साक्षादशेषतत्त्वज्ञानवतोऽसत्त्वप्रसङ्गात्, अस्मदादिप्रत्यक्षानुमानोपमानागमैः प्रमाणैः सकलतत्त्वज्ञानासम्भवान्निःशेषमिथ्याज्ञाननिवृत्त्ययोगात् सकलज्ञेयविशेषाणामानन्त्यात् । सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः प्रमाणभृद्भेदस्यापरिसङ्ख्येयत्वाद् इति [ ] स्वयमभिधानात् । न च मिथ्याज्ञानस्य कात्स्येनानिवृत्तौ सकलदोषनिवृत्तिः, तदनिवृत्तौ च न प्रवृत्तिनिवृत्तिः । तदनपाये च न जन्मनोऽपायः, ततो नाशेषदुःखापायश्च, इति गता निःश्रेयसकथा । यदि पुनरात्माद्यपवर्गपर्यन्तप्रमेयतत्त्वज्ञानादपरनिःश्रेयसप्राप्तिरिष्यते न पुनः प्रमाणादिषोडशपदार्थविशेषतत्त्वज्ञानाद् येन ज्ञानस्तोकादेव विमोक्षसिद्धेः केवली न स्यादिति मतं तदा बहोमिथ्याज्ञानाद् बन्धः किं न भवेत् ? तत्त्वज्ञानेन तस्य प्रतिहतत्वादिति चेत्, कथमेवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यादित्युक्तम् ? दोषसहितान्मिथ्याज्ञानाद् बन्ध इति चानेन निराकृतं, योगिज्ञानात् प्राग्दोषानिवृत्तेस्तत्कारणमिथ्याज्ञानसन्ततः
अष्टसहस्त्रीतात्पर्यविवरणम् आत्मानं चेद्विजानीयादहमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय, शरीरमनुसज्वरेत् ॥ [बृहदा० ४.४१२] इत्यखण्डानन्दस्वरूपात्मज्ञानादेव मोक्षः, सार्वयं तु तत्र नोपयुज्यते, तस्य तपोजन्यातिशयविशेषरूपस्यासार्वत्रिकत्वादित्यादिना वेदान्तिभिः समर्थितः स्तोकज्ञान पक्षोऽपि निरस्तः, आत्माज्ञानस्यापि केवलस्य बन्धहेतुत्वे तत्त्वज्ञानोत्पत्त्यनवकाशात्, दोषापेक्षायां चास्मन्मतप्रवेशात्, निर्विकल्पकात्मज्ञानस्य मिथ्याज्ञानवासनानाशकत्वे मानाभावाच्चेति दिग् । मिथ्याज्ञानादवश्यं दोषोत्पत्ताविति मिथ्याज्ञानस्य बन्धहेतुत्वात्तस्य च दोषहेतुत्वात्ततस्तदुत्पत्तेरवर्जनीयत्वादिति भावः । न च दोषस्य बन्धहेतुकत्वमप्रामाणिकं, समेऽपीष्टानिष्टादिसन्निधाने मोहबन्धोपनततद्विपाकोत्कर्षापकर्षाभ्यां तदत्कर्षापकर्षदर्शनात्तस्य तद्धेतुकत्वसिद्धेरिति ध्येयम् । तदा बहोरिति न च तत्त्वज्ञानमिथ्याज्ञानयोः
१. दोषोद्भूतौ इति अष्टसहस्रीसम्मतः पाठः ।