________________
द्वितीयो भाग: [ परि० १० का ० ९६ ]
सम्भवात् । एतेन वैशेषिकमतमपास्तम् इच्छाद्वेषाभ्यां बन्ध [ केवल्यभावाविशेषात् ।
६२९
] इति
[बौद्धोऽविद्यातः बन्धं विद्यातः मोक्षं मन्यते जैनाचार्याः तं निराकुर्वन्ति ।] अविद्यातृष्णाभ्यां बन्धोऽवश्यम्भावी
दुःखे विपर्यासमतिस्तृष्णा वा बन्धकारणम् ।
जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ [प्र० व० १.८३]
इति ताथागतमतमपि न सम्यक्, योगिज्ञानाभावप्रसङ्गात् । अयोगिनः प्रत्यक्षानुमानाभ्यामखिलतत्त्वज्ञानरूपाया विद्याया एवायोगात् तद्विशेषज्ञेयस्यानन्त्यात् स्वयम् अनन्ता लोकधातव इति वचनात् [ ] । न चाविद्यानुच्छेदे तृष्णा निवर्तते यतः सुगतः स्यात् । अथ ज्ञानस्तोकाद्विमोक्ष इष्यते, हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः सुगत इति वचनात् । तर्हि बहुतो मिथ्याज्ञानाद् बन्धः सिद्ध्यतु, तन्निबन्धनतृष्णाया अपि सम्भवात् । कथमन्यथा मिथ्यावबोधतृष्णाभ्यामवश्यम्भावी बन्ध इति प्रतिज्ञा न विरुद्ध्यते ?
[वृद्धबौद्धेन मान्यं मोक्षतत्त्वमपि निराकुर्वन्ति जैनाचार्याः ।]
एतेनैतदपि प्रत्याख्यातं यदुक्तं वृद्धबौद्धैः - 'अविद्याप्रत्ययाः संस्काराः,
अष्टसहस्त्रीतात्पर्यविवरणम्
स्तोकत्वं बहुत्वं वाऽप्रयोजकं, किन्तु प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगम (न्या० २.१.१) इति सूत्रात्तर्कपरिशुद्धिजनितप्रमाणादिषोडशपदार्थसमूहालम्बनज्ञानविशेष एव मोक्षहेतुः, तदभावे एव च बन्धहेतुरित्यस्माकमभ्युपगम इति वाच्यम् । तस्य श्रद्धामात्रशरणत्वात्, सर्वैः स्वस्वाभ्युपगतपदार्थतत्त्वज्ञानस्यैव मोक्षहेतुत्वोक्तेः । अथ प्रमाणादिपदार्थपरिशोधनमप्यात्मसाक्षात्कारायैवोपयुज्यते स एव श्रवणमनननिदिध्यासनजनितो मोक्षहेतुरिष्यते, आत्मा वारे द्रष्टव्यः श्रोतव्य [ ] इत्यादिश्रुतावार्थक्रमस्य बलवत्त्वादात्मश्रवणादिना तद्दर्शनं भावयेदित्यर्थादित्यात्मज्ञानस्यैव मोक्षहेतुत्वाद् बहुस्तोकादिपक्षाश्रयणमनतिप्रयोजनमिति चेत्, न, आत्मसाक्षात्कारस्यापि यावत् स्वेतरभिन्नत्वप्रकारकस्याश्रयणे सार्वज्ञ्यपक्षानतिक्रमात्, अन्यथा तत्त्वज्ञानजनकमननोपयोगितया प्रमाणादिपदार्थपरिशोधनानापत्तेः, किञ्च शरीरादिभिन्नत्वांशे लौकिकस्य तस्य कथमपरोक्षशरीराद्यभेदभ्रमनिवर्त्तकत्वमिति सर्वांशस्पष्टतार्थं सर्वविषयकत्वमेव युक्तमिति दिग् । एतैनैतदपीत्यादिना वृद्धबौद्धप्रक्रियाप्रदर्शनपूर्वं