________________
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा० ) तथानुमानादेरपि कथञ्चिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्त्यैव
प्रामाण्यमन्यथा
६५२
चाप्रामाण्यमित्यनेकान्तसिद्धिः ।
( भा० ) एकान्तकल्पनायां तु नान्तर्बहिस्तत्त्वसंवेदनं व्यवतिष्ठेत तथागतमते ।
(भा०) स्वयमद्वयादेर्द्वयादिप्रतिभासनाद्रूपादिस्वलक्षणानां च तथैवादर्शनाद्यथा व्यावर्ण्यन्ते ।
स्वसंवेदनस्य संविन्मात्रे प्रमाणत्वेऽपि तदद्वयक्षणिकपरमाणुरूपे विपर्ययप्रतिभासादप्रमाणत्वकल्पनायां कथमेकान्तहानिर्न स्यात् यत्प्रमाणं तत् प्रमाणमेवेति ? रूपादिदर्शनस्य च रूपादिमात्रे प्रमाणत्वेऽपि स्थूलस्थिरसाधारणाकारप्रतिभासस्य भ्रान्तत्वादप्रमाणतायां कथमेकान्तसिद्धिः ?
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुण [प्र. वा. ३.४४] इति
(भा० ) तदविशेषोपलम्भाभ्युपगमेऽपि ।
भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते [प्र. वा. ३.४४] इति वचनात्
तद्व्यवसायवैकल्यं सिद्धमेव ।
( भा० ) तत्र च तद्व्यवसायवैकल्ये
वा दानहिंसादिचित्ते ।
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रमात्वाप्रमात्वोभयसाम्राज्यादनेकान्तव्यवस्था सुघटेति सिद्धम् । कथञ्चिन्मिथ्याप्रतिभासेऽपीति वासनाविशेषाद्वह्निमत्त्वादिसंसर्गांशे मिथ्याप्रतिपत्तावपि, संवादोत्कर्षात्तत्र प्रामाण्यव्यवस्थितिरन्यथा नेत्यर्थः । लौकिकव्यवहारमपेक्ष्य चेदमुच्यते लोकोत्तरन्तु प्रामाण्यमनेकान्तवासनोपनीतानन्तधर्मात्मकवस्त्वगाहित्वेन संशयादावपि सम्यग्दृष्टेरिति "महाभाष्यप्रसिद्धं विवेचितमध्यात्मसारादावस्माभिः । दृष्ट एवाखिलो गुण इति अर्थानां निरंशत्वसिद्धेरित्यर्थः । सिद्धमेवेति प्रत्यक्षस्य निर्विकल्पकत्वादित्यर्थः । तत्र च रूपादि