________________
द्वितीयो भागः [ परि० १०-का० १०१]
६५३ (भा०) क्वचिद्धर्माधर्मसंवेदनवत् परोक्षत्वोपपत्तेः तत्त्रिरूपलिङ्गबलभाविनामपि (भा०) विकल्पानामतत्त्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? ।
मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ [प्र. वा. २.५७] यथा तथाऽयथार्थत्वेऽप्यनुमानावभासयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ इति [प्र. वा. २.५८] (भा०) मणिप्रदीपप्रभादृष्टान्तोऽपि स्वपक्षघाती, मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणान्तर्भावविघटनात् ।
कथं प्रमाणे एवेत्यवधारणं घटते ? ।
(भा०) न हि तत्प्रत्यक्षं स्वविषये विसंवादनात् शुक्तिकादर्शनवद्रजतभ्रान्तौ ।
तत्राप्रतिपन्नव्यभिचारस्य यदेव मया दृष्टं तदेव मया प्राप्तमित्येकत्वाध्यवसायाद्विसंवादनाभावान्मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिराशुभ्रमणिनौयानसंक्षोभाद्याहितविभ्रमस्यापि धावद्दवादितरुदर्शनस्य प्रत्यक्षत्वप्रसङ्गादभ्रान्तमिति विशेषणमध्यक्षस्य न स्यात् । धावतां दर्शनादवस्थितानामगानां प्राप्तेविसंवादात् भ्रान्तत्वसिद्धेस्तस्याप्रत्यक्षत्वे कुञ्चिकाविवरे मणिप्रभायां मणेर्दर्शनादपवरकाभ्यन्तरेऽपरिप्राप्तेः कथमिव तस्याभ्रान्तता युज्येत ? इति न प्रत्यक्षं तत्स्यात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् दर्शने च, परोक्षत्वोपपत्तेरिति विकल्पलिङ्गानुमेयत्वादित्यर्थः । अतत्त्वविषयत्वात्= तुच्छसामान्यगोचरत्वात्, मणिप्रदीपप्रभयोरिति मणिप्रभायां प्रदीपप्रभायां चेत्यर्थः । मणिप्रभादर्शनस्य प्रामाण्यप्राप्तावपि प्रत्यक्षेऽनुमाने चान्तर्भावसम्भवान्न प्रमाणद्वयविभागव्याघातो भविष्यतीत्याशङ्कायामाह भाष्ये-न हि तत्प्रत्यक्षमित्यादि । स्वविषय इति दीपप्रभांश इत्यर्थः । यदंशे संवादस्तदंशे प्रामाण्यमबाधमिति मत्वाऽऽह वृत्तिकृत्-तत्रेत्यादि । यत्प्रकारेण विसंवादस्तत्प्रकारेण भ्रमत्वे त्वभ्युपगम्यमाने प्रकृतेऽपि तत्तुल्यमित्याहधावतामित्यादि । कुञ्चिकाविवरे द्वारप्रवेशविवरे, माभून्मणिप्रभायां मणिज्ञानं प्रत्यक्षम्,