________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) नापि लैङ्गिकं लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेरन्यथा दृष्टान्तेतरयोरेकत्वात् किं केन कृतं स्यात् ?
तदेतेन प्रतिपन्नव्यभिचारस्य ।
६५४
य इत्थं प्रतिभासः स्यात् स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा सति ॥ इति [ ]
प्रज्ञाकरमतमप्यपास्तं, स्वयमसिद्धेन दृष्टान्तेन साध्यसिद्धेरकरणात् । कदाचित्संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वमयुक्तं । ( भा० ) कादाचित्कार्थप्राप्तेरारेकादेरपि सम्भवात्,
प्रत्यक्षत्वप्रसक्तेः ।
सर्वदा संवादात्तस्य प्रत्यक्षत्वमुदाहरणत्वं चेत्यप्यसारं, तदसिद्धेः । ( भा० ) न हि मिथ्याज्ञानस्य संवादनैकान्तः
सम्भवति, विरोधात् । नन्वनुमानस्य संभवत्येवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तदुक्तं
अष्टसहस्त्रीतात्पर्यविवरणम्
आनुमानिकं तद्भविष्यतीत्याशङ्कायामाह - नापि लैङ्गिकमित्यादि । किं केन कृतं स्यादिति न केनचित् किञ्चिदित्यर्थः । प्रतिपन्नव्यभिचारस्येति मण्युत्पत्तिप्रदेश इत्यर्थः । य इत्थमिति अत्र प्रयोगश्चायं - ममायं प्रतिभासो मणिसंस्थानवान् एवंप्रतिभासत्वात् संप्रतिपन्नप्रतिभासवदिति । स्वयमसिद्धेनेति अन्यत्रापि मणिप्रभाप्रतिभासे मणिसंस्थानविषयत्वस्यासिद्धेः पर्वतो वह्निरित्यस्येव मणिप्रभायामयं मणिरित्यस्य लैङ्गिकज्ञानस्यापि भ्रमरूपतायाः सर्वसिद्धत्वाच्च । एतेन कुञ्चिकापवपरकसाधारणस्थूलदेशपक्षकमण्यनुमानम् अपास्तम्, अभेदानुमितेरेव विचार्यत्वात् । प्रत्यक्षत्वप्रसक्तेः प्रत्यक्षप्रमाणत्वप्रसक्तेः । सम्भवत्येवेत्यत्र संवादनैकान्त इति योगः । अनन्तर लिङ्गज्ञानवत् धूमदर्शनानन्तरधूमज्ञानवत्, पारम्पर्येणेति अग्निस्वलक्षणाद्धूमस्वलक्षणं ततो धूमनिर्विकल्पं ततो धूमविकल्प उत्पद्यत इत्येवमुत्पत्तिपारम्पर्यं बोध्यम् । अर्थप्रापकत्वं च लिङ्गज्ञानस्य
१. संवादनं इति अष्टसहस्रीसम्मतः पाठः ।