________________
द्वितीयो भाग: [ परि० १० का ० १०१]
लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात्तदाभासं शून्ययोरप्यवञ्चनम् ॥ [त श्लो. वा. १.११.१३]
इति कश्चित् सोऽप्यनालोचिताभिधायी, सर्वदा संवादिनः प्रत्यक्षवन्मिथ्याज्ञानत्वविरोधात् ।
६५५
( भा०) तथा न लैङ्गिकं सर्वथैवाविसंवादकत्वात् ।
न हि तदालम्बनं भ्रान्तं प्राप्येऽपि वस्तुनि भ्रान्तत्वप्रसङ्गात् । प्राप्ये तस्याविसंवादकत्वे स्वालम्बनेऽप्यविसंवादकत्वम्, इति कथं न सर्वथैवाविसंवादकत्वमनुमानस्य ? सामान्यविशेषात्मकवस्तुविषयत्वप्रसिद्धेः प्रत्यक्षवत्, अन्यथा प्रमाणत्वायोगात् ।
( भा० ) तस्मात् सूक्तं तत्त्वज्ञानमेव प्रमाणं कारणसामग्रीभेदात् प्रतिभासभेदेऽपीति ।
न ह्यनुमानस्य वस्तुविषयत्वाद्विशदप्रतिभासनमापादयितुं शक्यं, विदूरस्थपादपादिदर्शनेनाविशदप्रतिभासेन व्यभिचारात् । पृथग्जनप्रत्यक्षस्यापि योगिप्रत्यक्षवदसम्भवात् सकलसमारोपत्वप्रसङ्गात् स्वलक्षणविषयत्वाविशेषात् । तदविशेषेऽपि योगीतरप्रत्यक्षयोः कारणसामग्रीविशेषाद्विशेषपरिकल्पनायां तत एव प्रत्यक्षानुमानयोरपि प्रतिभासविशेषोऽस्तु सर्वथा बाधकाभावात् ।
( भा० ) प्रमाणमेव वा तत्त्वज्ञानं
नामेत्यवधारणमनुमन्तव्यं, फलज्ञानस्यापि स्वाव्यवहितफलापेक्षयां प्रमाणत्वोपयोगात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वविषयप्राप्तिद्वारा तत्प्रतिबद्धसाध्यप्राप्तिपरम्परयेति बोध्यम् । तदाभास शून्ययोरपि= अवस्तुसामान्यगोचरयोरपि, तथा = मिथ्या, यावदप्राप्तं तावद्विधेयमित्यनूद्य विधेयभावे कामचारमभिप्रेत्याह भाष्यकृत् प्रमाणमेव वेत्यादि । फलज्ञानस्यापि = फलीभूतज्ञानस्यापि प्रमाणत्वोपगमादिति धारावाहिकप्रामाण्यव्यवस्थितेरित्यर्थः । अनिर्णीतनिर्णया
१. तदाभासं इति अष्टसहस्रीसम्मतः पाठः ।
२. प्रमाणत्वोपयोगाद् इति अष्टसहस्रीसम्मतः पाठः ।