________________
६५६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) ततः स्वलक्षणदर्शनानन्तरभाविनस्तत्त्वव्यवसायस्य प्रमाणत्वोपपत्तेः प्रत्यक्षमनुमानमिति प्रमाण एवेत्याद्यवधारणं प्रत्याचष्टे
सौगतानां, तस्य प्रत्यक्षानुमानाभ्यां प्रमाणान्तरत्वात् । न हीन्द्रियव्यवसायोऽप्रमाणमविसंवादकत्वात् ।
(भा०) अनधिगतार्थाधिगमाभावात्तदप्रमाणत्वे लैङ्गिकस्यापि मा भूत् प्रमाणत्वं,
(भा०) विशेषाभावात् । अनधिगतत्वस्वलक्षणाध्यवसायादनुमितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रमाणत्वं प्रतिषेध्यमनिर्णीतनिर्णयात्मकत्वात् क्षणभङ्गानुमानवत् ।।
क्षणिकत्वानुमानस्य ह्यनिश्चिताध्यवसाय एवानधिगतस्वलक्षणाध्यवसाय: । स च ध्वनिदर्शनानन्तरभाविनो व्यवसायस्यास्तीति युक्तं प्रमाणत्वम् ।
(भा०) ध्वनेरखण्डशः श्रवणादधिगमोऽपि प्राथमकल्पिकस्तत्त्वनिर्णीतिरेव,
तद्वशात् तत्त्वव्यवस्थानान्निीतेरेव मुख्यप्रमाणत्वोपपत्तेः ।
(भा०) तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेरदर्शनानतिशायनात्तदर्शनाभावेऽपि तत्त्वनिश्चये तदन्यसमारोपव्यवच्छेदलक्षणे प्रमाणलक्षणाङ्गीकरणात् ।
[सौगतः स्मृति प्रमाणं न मन्यते किन्तु जैनाचार्याः तस्याः प्रमाणत्वं साधयन्ति ।]
ननु निश्चितार्थमात्रस्मृतेरप्येवं प्रमाणत्वापत्तेरतिप्रसङ्ग इति चेत्, न, प्रमितिविशेषाभावेतरपक्षानतिक्रमात् । प्रथमपक्षे (भा०) क्वचित्कुतश्चिद्धूमकेतुलैङ्गिकवन्निर्णीतार्थमात्रस्मृतेरधि
- अष्टसहस्त्रीतात्पर्यविवरणम् – त्मकत्वात् निर्विकल्पकानिश्चितनीलादिनिश्चयात्मकत्वात्, अधिगमोऽपि निर्विकल्पकानन्तरसमुद्भूतो व्यवसायोऽपि, प्राथमिककल्पिको =मुख्यवृत्त्या प्रमाणभूतः, धूमकेतु
१. प्राथमिक इति अष्टसहस्रीसम्मतः पाठः ।