________________
द्वितीयो भाग: [ परि० १० का ० १०१]
गतार्थाधिगमात् प्रामाण्यं मा भूत्, प्रमितिविशेषाभवत् ।
द्वितीयपक्षे पुनरिष्टं प्रामाण्यमनुस्मृतेः, प्रमितिविशेषसद्भावात् । ( भा० ) प्रकृतनिर्णयस्य प्रामाण्ये हि न किञ्चिदतिप्रसज्यते । दृष्टस्याप्यनिश्चितस्य निश्चयात्, प्रत्यक्षतो निश्चिते धूमकेतौ ज्वालादिविशेषाद्धूमकेतुलैङ्गिकस्मृतौ तु विशेषपरिच्छित्तेरभावादप्रामाण्यनिदर्शनात् । परिच्छित्तिविशेषसद्भावेऽपि साकल्येन स्मृतेरप्रामाण्यकल्पनायामनुमानोत्थानायोगः, सम्बन्धस्मृतेरप्रमाणत्वात्, तस्या अपि लैङ्गिकत्वेन प्रामाण्ये परापरसम्बन्धस्मृतीनामनुमानत्वकल्पनादनवस्थानात् सम्बन्धस्मृतिमन्तरेणानुमानानुदयात् । सुदूरमपि गत्वा सम्बन्धस्मृतेरननुमानत्वे प्रमाणत्वे च सिद्धं स्मृतेरूपयोगविशेषात् प्रमाणत्वमविसंवादादनुमानवत् । तच्च यथा प्रत्यक्षमनुमानमिति प्रमाणे एवेत्यवधारणं प्रत्याचष्टे, तथा त्रीण्येव प्रमाणानि चत्वार्येव पञ्चैव षडेवेत्यवधारणमपि, स्मृतेरागमोपमानार्थापत्त्यभावेष्वनन्तर्भावात्, तदनन्तर्भावेऽनुमानान्तर्भाववदनवस्थानानुषङ्गादागमाद्युदयविरोधात्, शब्दादिस्मृतिमन्तरेण तदनुपपत्तेः । यदि पुनरागमाद्युत्थापकसामग्रीत्वाच्छब्दादिस्मृतेरागमादिप्रमाणत्वमप्युररीक्रियते तदा शब्दादिप्रत्यक्षस्यापि तत्सामग्रीत्वादागमादित्वप्रसङ्गः । तथा च स्मृतिवन्न प्रत्यक्षं प्रमाणान्तरं स्यात् । प्रमाणान्तरत्वे वा स्मृतेरपि प्रमाणान्तरत्वं, दर्शनानन्तराध्यवसायवत् । (भा० ) अनिर्णीतेऽपि कथञ्चिदतिशायनादनुमानवत् ।
[प्रत्यभिज्ञानमपि पृथक् प्रमाणमेव इति जैनाचार्याः साधयन्ति ]
एवं
( भा० ) प्रत्यभिज्ञानं प्रमाणं, व्यवसायातिशयोपपत्तेः । प्रत्यक्षादिवत् ।
६५७
अष्टसहस्त्रीतात्पर्यविवरणम्
लैङ्गिकवदिति प्रत्यक्षनिश्चितेऽग्नौ तदनुमितिवदित्यर्थः । ज्वालादिविशेषादिति ज्वालादिविशेषस्य धूमकेतुसम्बन्धित्वेन ग्रहादेकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणस्यौत्सर्गिकत्वादिति भावः । स्मृतेरुपयोगविशेषात् प्रमाणमिति सम्बन्धस्मरणादेर्व्याप्तिप्रत्यभिज्ञानादिफलोप१. प्रमाणत्वमिति अष्टसहस्रीसम्मतः पाठः ।