________________
६५८
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) तत्सामर्थ्याधीनत्वात्प्रमाणत्वस्थिते: अविसंवादस्यापि स्वार्थव्यवसायात्मकत्वात् । (भा०) अन्यथा हि विसंवादः स्यात्संशयादिवत् ।
न चेदं प्रत्यभिज्ञानमव्यवसायात्मकं, तद्वदेवेदं तत्सदृशमेवेदमित्येकत्वसादृश्यविषयस्य द्विविधप्रत्यभिज्ञानस्याबाधितस्यारेकादिव्यवच्छेदेनावगमात्, बाध्यमानस्याप्रमाणत्वोपपत्तेस्तदाभासत्वात् । न च सर्वं प्रत्यभिज्ञानं बाध्यमानमेव, प्रत्यक्षस्य तद्विषये प्रवृत्त्यसम्भवादबाधकत्वादनुमानस्यापि तद्विषयविपरीतसर्वथाक्षणिकविसदृशवस्तुव्यवस्थापकस्य निरस्तत्वात्तद्बाधकत्वायोगात् । ततः प्रत्यभिज्ञानं तत्त्वज्ञानत्वात्प्रमाणं प्रत्यक्षवत् ।
[तर्कज्ञानमपि पृथक्प्रमाणमेवेति साधयन्ति जैनाचार्याः]
एवं
(भा०) लिङ्गलिङ्गिसम्बन्धज्ञानं प्रमाणमनिश्चितनिश्चयादनुमानवद् । सत्त्वक्षणिकत्वयोधूंमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षमुत्सहते, सन्निहितार्थाकारानुकारित्वात् ।
इन्द्रियजमानसस्वसंवेदनप्रत्यक्षस्य योगिप्रत्यक्षस्य ।
(भा०) अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषङ्गात् । सुदूरमपि गत्वा तदुभयव्यतिरिक्तं व्यवस्थानिमित्तमभ्युपगन्तव्यम् ।
तदस्माकमूहाख्यं प्रमाणमविसंवादकत्वात् समारोपव्यवच्छेदकत्वादनुमानवत् । न चोह: सम्बन्धज्ञानजन्मा, यतोऽनवस्थानं स्यादपरापरोहानुसरणात्, तस्य प्रत्यक्षानुपलम्भजन्मत्वात् प्रत्यक्षवत्, स्वयोग्यतयैव स्वविषये प्रवृत्ते । सम्बन्धज्ञानमप्रमाणमेव, प्रत्यक्षानुपलम्भपृष्टभाविविकल्पत्वाद् गृहीतग्रहणात्,
अष्टसहस्त्रीतात्पर्यविवरणम् योगे प्रामाण्यमित्यर्थः । फलीभूतस्मृतेरपि याथार्थ्यं तु विषयाबाधादेव दुर्निवारं, तस्याः प्रमात्वस्यानुभवप्रमात्वपारतन्त्र्येऽपि व्याप्तिज्ञानप्रमात्वपरतन्त्रानुमितिप्रमात्ववदविरोधात्, तद्वदेव याचितकमण्डनन्यायेनायथार्थत्वाव्यवस्थितेरित्यादिकमुपपादितमन्यत्र । तस्येति