________________
द्वितीयो भागः [परि १०-का० १०१]
६५९ सम्बन्धप्रतिपत्तौ प्रत्यक्षानुपलम्भयोरेव भूयः प्रवर्तमानयोः प्रमाणत्वादित्येके, तेऽप्यसमीक्षितवाचः, कथञ्चिदपूर्वार्थविषयत्वादूहाख्यविकल्पस्य प्रमाणत्वोपपत्तेः प्रत्यक्षानुपलम्भयोः सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च व्याप्तौ प्रवृत्त्यसम्भवात् । यदि पुनरप्रमाणमेव व्याप्तिज्ञानं सम्बन्धं वा व्यवस्थापयेत्तदा प्रत्यक्षमनुमानं चाप्रमाणमेव स्वविषयं व्यवस्थापयेत् किं तत्प्रमाणत्वसाधनायासेन ? लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिरर्थापत्तेरित्यन्ये । तेषामपि सम्बन्धज्ञानपूर्वकत्वेऽर्थापत्तेरापत्त्यन्तरानुसरणादनवस्था । तदपूर्वकत्वे स्वयमनिश्चितानन्यथाभवनस्यार्थापत्त्युदयत्वप्रसङ्गः, परस्पराश्रयणं च, सत्यनुमानज्ञाने तदन्यथानुपपत्त्या सम्बन्धज्ञानं. सति च सम्बन्धज्ञानेऽनुमानज्ञानमिति नैकस्याप्युदयः स्यात् । न चान्यत्सम्बन्धार्थापत्त्युत्थापकमस्त्यनुमानज्ञानाद् येन परस्पराश्रयणं न स्यात् । एतेनोपमानादेः सम्बन्धप्रतिपत्तिः प्रत्युक्ता । तस्माद्
(भा०) उपमानादिकं प्रमाणान्तरमिच्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबन्धाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति । इति प्रत्यक्षं परोक्षमित्येतद् द्वितयं प्रमाणम्
अभ्युपगन्तव्यम् । (भा० ) अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि, परोक्षेऽन्तर्भावात् । तदुक्तं
प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रितमविप्लवम् । परोक्षं प्रत्यभिज्ञादि प्रमाणे इति सङ्ग्रहः ॥ [ ]
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्य सर्वोपसंहारेण व्याप्तिज्ञानादिरूपोहस्य, प्रत्यक्षानुपलम्भजन्यत्वाद् विशेषान्वयव्यतिरेकग्रहसामान्यव्यभिचारनिर्णयजन्यत्वात्, अविचारकत्वाच्चेति उहोपयोगे तु लाघवादिविचारस्यापि प्रवेशान्न दोष इति भावः । अनुमानव्यतिरेके ऽपीति, अपिरस्वरसद्योतकः, तेन तत्त्वतोऽर्थापत्त्यादेरनुमानादावेवान्तर्भाव इत्युक्तं भवति । विधेति
१. जन्मत्वादिति अष्टसहस्रीसम्मतः पाठः ।