________________
अष्टसहस्त्रीतात्पर्यविवरणम्
ततः सूक्तमिदमवधारणं प्रमाणमेव तत्त्वज्ञानमिति, प्रत्यक्षपरोक्षतत्त्वज्ञानव्यक्तीनां साकल्येन प्रमाणत्वोपपत्तेः ।
६६०
[ज्ञानानां विशेषलक्षणं विषयं च स्पष्टयन्त्याचार्याः ]
( भा० ) तत्र सकलज्ञानावरणपरिक्षयविजृम्भितं केवलज्ञानं युगपत्सर्वार्थविषयम् ।
करणक्रमव्यवधानातिवर्तित्वात् युगपत्सर्वभासनम् । तत्त्वज्ञानत्वात्प्रमाणम् । ( भा० ) तथोक्तं, 'सर्वद्रव्यपर्यायेषु केवलस्य' इति
सूत्रकारैः [तत्त्वा० १.२९] केवलज्ञानदर्शनयोः क्रमवृत्तित्त्वात् चक्षुरादिज्ञानदर्शनवद्युगपत्सर्वभासनमयुक्तमिति चेत्, न तयोर्यौगपद्यात्, तदावरणक्षयस्य युगपद्भावात्, मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् इति [१०.१] अत्र प्रथमं मोहक्षयस्ततो ज्ञानावरणादित्रयक्षयः सकृदिति व्याख्यानात् ।
( भा०) तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्याद् । दर्शनकाले ज्ञानाभावात्तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्वदर्शित्वं च साद्यपर्यवसिते केवलज्ञानदर्शने इति वचनात् [ ]।
अष्टसहस्त्रीतात्पर्यविवरणम्
इन्द्रियनोइन्द्रियस्वसंवेदनभेदात् । श्रितमविप्लवमिति अभ्रान्तत्वं श्रितमित्यर्थः । ॥ केवलज्ञानदर्शनोपयोगद्वयवादः ॥
सततं चेति, अत्र वदन्ति श्रीजिनभद्रगणिक्षमा श्रमणानुयायिनः क्रमिकज्ञानदर्शनोपयोगद्वयाभ्युपगमेऽपि केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोः सातत्यस्य साद्यपर्यवसितत्वस्य च लब्ध्यपेक्षया न विरोधो, मतिज्ञानश्रुतज्ञानयोरपि षट्षष्टिसागरोपमस्थितिकत्वस्येत्थमेवोपपादनात्, उपयोगस्थितेरुत्कर्षतोऽप्यन्तर्मुहूर्त्तपरिमाणत्वादेव सामग्रीद्वयसमाजेऽप्येकदा केवलज्ञानदर्शनद्वयानुत्पादे मतिश्रुतयोरेव दृष्टान्तत्वात्, सह द्वौ न स्त उपयोग इत्या - वचनादेव च केवलज्ञानोपयोगकाले केवलदर्शनोपयोगात्, तस्य छद्मस्थोपयोगविषयत्वेन सङ्कोचकरणे बीजाभावात्, स्वभावहेतोरुभयत्राविशेषादादौ केवलज्ञानोपयोगोत्पादे च सर्वा लब्धयः साकारोपयोगोपयुक्तस्यैव भवन्ति इति [ ] वचनस्यैव विनिगमकत्वात्, तदनन्तरं केवलदर्शनोपयोगोत्पादस्य चार्थसिद्धत्वात्, तदनन्तरं क्रमिकोपयोगद्वयधारायाश्च स्वरसत एव
-